________________
पद्मपुराणम् ।
१७०
सप्तमं पर्व ।
सुमाली माल्यवत्सूर्यरजाऋक्षरजास्तथा । आगता नितरां प्रीताः समारुह्योत्तमान् रथानन् ॥ ३५० ॥ अन्ये च स्वजनाः सर्वे विमानैर्वाजिभिर्गजैः । स्वदेशेभ्यो विनिष्क्रिाता त्रासेन परिवर्जिताः ३५१ अथ रत्नश्रवाः पुत्रस्नेह संपूर्णमानसः । वैजयंतीभिराकाशं शुक्लीकुर्वन्निरंतरं ।। ३५२ ॥ विभूत्या परया युक्तो दिवृंदैरभिष्टुतः । संप्राप्तो रथमारूढो महाप्रसादसन्निभं ॥ ३५३ ॥ एकीभूय तोमी पंचसंगमपर्वते । दुःखेन रजनीं निन्युररातिभययोगतः ॥ ३५४ ॥ ततो गुरून्प्रणामेन समा श्लेषणतः सखीन् । स्निग्धेन चक्षुषा भृत्यान् जगृहु: कैकसीसुताः ३५५ शरीरक्षेमपृच्छादिसिद्धिवृत्तांत संकथा । न तेषामवगीतत्वं प्राप्ताख्या पुनः पुनः ॥ ३५६ ॥ ददृशुर्विस्मयापन्नाः स्वयंप्रभपुरोत्तमं देवलोकप्रतिच्छंदं यातुधानप्लवंगमाः ॥ ३५७ ॥ सवेपथुकरेणैषां गात्रमस्पृशतं चिरं । पित्तरौ सप्रणामानामानंदाच्चाकुलेक्षणौ ।। ३५८ ॥ नभोमध्ये गते भानौ तेषां स्नानविधिस्ततः । दिव्याभिः कर्तुमारब्धो वनिताभिर्महोत्सवः ३५९ मुक्ताजालपरीतेषु स्नानपीठेषु ते स्थिताः । नानारत्नसमृद्धेषु जात्यजांबूनदात्मसु ।। ३६० ।। पाठपीठेषु चरणौ निहितौ पल्लवच्छवी । उदयाद्रिशिरोवर्तिदिवाकरसमाकृती ।। ३६१ ।। ततो रत्नविनिर्माणैः सौवर्णैराजतात्मकैः । कुंभैः पल्लवसंछन्नवत्रैहरविराजितैः ।। ३६२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org