________________
पद्मपुराणम् ।
१६९
सप्तमं पर्व ।
स्वयंप्रभमिति ख्यातं नगरं च निवेशितं । मेरुशृंगसमुच्छ्रायं सग्रपंक्तिविराजितं ॥ ३३७ ॥ मुक्ताजालपरिक्षिप्तगवाक्षैर्दूरपुन्नतैः । रत्नजांबूनदस्तंभैरचितं चैत्यवेश्मभिः ॥ ३३८ ॥ अन्योन्यकरसंबंधजनितेंद्र शरासनैः । रत्नैः कृतसमुद्योतं नित्यविद्युत्समप्रभैः ।। ३३९ ॥
तृभ्यां सहितस्तत्र प्रासादे गगनस्पृशि । विद्याबलेन संपन्नः सुखं तस्थौ दशाननः ॥ ३४० ॥ जंबूद्वीपपतिः प्राह तत एवं दशाननं । विस्मितस्तव वीर्येण प्रसन्नोहं महामते ।। ३४१ ॥ चतुःसमुद्रपर्यंते नागव्यंतरसंकुले । तिष्ठत्वत्र यथाछंदं जंबूद्वी पतले भवान् ॥ ३४२ ॥ द्वीपस्यास्य समस्तस्य वसिताहमकंटकः । थथेप्सितं चरैस्तस्मिन्नुद्धरन् शत्रुसंहति ॥ ३४३ ॥ प्रसन्ने मयि ते वत्स स्मृतिमात्रपुरस्थिते । ईप्सितव्याहतौ शक्तो न शक्रोपि कुतोऽपरे ।। ३४४ ॥ द्रष्टिं जीव कालं त्वं भ्रातृभ्यां सहितः सुखी । वर्द्धतां भूतयो दिव्या बंधुसेव्या सदा तव ३४५ इत्याशीर्भिः समानंद्य सत्याभिस्तान् पुनः पुनः । जगाम स्वालयं यक्षः परिवारसमन्वितः ३४६ तं रत्नश्रवजं श्रुत्वा विद्यालिंगितविग्रहं । सर्वतो रक्षसां संघाः प्राप्ताः कृतमहोत्सवाः || ३४७ ॥ उन्नतं ननृतुः केचित् चक्रुरास्फोटनं तथा । केचित्प्रमदसंपूर्णाः प्रशशंसुश्च रावणं ॥ ३४८ ॥ चंद्रकांर्ति तिरस्कुर्वत् शत्रुपक्षभयंकरं । सुधयेव नभः कैश्विल्लिद्भिर्हसितं चिरं ॥ ३४९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org