________________
पद्मपुराणम् ।
सातम पर्व । इत्युक्त वितथं पूर्वमेकस्यापे यतोधुना । यूयं म्लेच्छस्य पर्याप्ता न त्रयोपि हतौजसः ॥ २९८॥ दशग्रीव वृथा स्तोत्रमकरोत्ते विभीषणः । एकापि नास्ति ते ग्रीवा जननी यो न रक्षति।।२९९॥ कालेन यावता यातस्त्वं मे मानेन वर्जितः । निष्क्रांतो जठसदस्मादुच्चारस्तावता वरं ॥३०॥ भानुकर्णोप्ययं मुक्तः कर्णाभ्यां यो न मे स्वरं । आतं शृणोति कुर्वत्या विगतक्रियविग्रहः ३०१ विभीषणोप्ययं व्यर्थ नाम धत्ते विभीषणः । शक्तो यो नैककस्यापि शवरस्य मृताकृतिः॥३०२॥ म्लेच्छैर्विधर्ममाणायां दयां कुरुत नो कथं । स्वसरि प्रेम हि प्रायः पितृभ्यां सोदरे परं॥३०॥ विद्या हि साध्यते पुत्राः स्वजनानां समृद्धये । तेषां च पितरौ श्रेष्ठौ तयोश्चैषा व्यवस्थितिः ३०४ भूक्षेपमात्रतोप्यते शवरा यांति भस्मता । भवतां दृग्विषव्यालचक्षुःपातादिव द्रुमाः ॥३०५॥ जठरेण मया यूयं धारिताः सुखलिप्सया । पुत्रा हि गदिताः पित्रोः प्रारोहा इव धारकाः ३०६ यदेवमपि न ध्यानभंगस्तेषामजायत । तदेति तैः समारब्धं मायाकमोतिदारुणं ॥ ३०७॥ छिन्नं पित्रोः शिरस्तेषां पुरः सायकधारया । पुरो दशाननस्यापि मूर्दा भ्रात्रोनिपानितः॥३०८॥ तयोरपि पुरो मूर्द्धा दशग्रीवस्य पातितः । येन तौ कोपतः प्राप्तावीषद्धया विकंपनं ॥ ३०९ ॥ दशग्रीवस्तु भावस्य दधानोत्यंतशुद्धतां । महावीर्यो दधत्स्थेये मंदरस्य महारुचिः ॥३१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org