________________
पद्मपुराणम् ।
९६७
सप्तमं पर्व 1
अवभज्य हृषीकाणां प्रसरं निजगोचरे । अचिराभाचलं चित्तं कृत्वा दासमिवाश्रवं ॥ ३११ ॥ कंटकेन कृतत्राणः शवरेण समं ततः । ध्यानवक्तव्यताहीनो दध्यौ मंत्रं प्रयत्नतः ।। ३१२ ।। यदि नाम तथा ध्यानमाविशच्छ्रमणोत्तमः । अष्टकर्मसमुच्छेदं ततः कुर्वीत तत्क्षणात् ॥ ३१३ ॥ अत्रांतरे सदेहानां कृतांजलिपुटस्थितं । सहस्रं तस्य विद्यानामनेकं वशतामितं ॥ ३१४ ॥ समाप्तिमेति नोयावत्संख्यामंत्रविवर्तने । तावदेवास्य ताः सिद्धा निश्चयात्कि न लभ्यते ।। ३१५ ।। नियोपि पुरोपात्ताल्लभ्यते कर्मणः सितात् । कर्माण्येव हि यच्छंति विघ्नं दुःखानुभाविनः ३१६ काले दानविधि पात्रे क्षेत्रे चायुःस्थितिक्षयं । सम्यग्बोधिफलां विद्यां नाभव्यो लब्धुमर्हति ३१७ कस्यचिद्दशभिर्वर्षैर्विद्या मासेन कस्यचित् । क्षणेन कस्यचित्सिद्धि यांति कर्मानुभावतः || ३१८ ।। धरण्यां स्वपितु त्यागं करोतु चिरमंधसः । मज्जत्वप्सु दिवानक्तं गिरेः पततु मस्तकात् ॥ ३१९|| विधत्तां पंचतायोग्यां क्रियां विग्रहशोषिणीं । पुण्यैर्विरहितो जंतुस्तथापि न कृती भवेत् ॥ ३२० ॥ अंगमात्र क्रियाः पुंसां सिद्धेः सुकृतकर्मणां । अकृतोत्तमकर्माणो यांति मृत्युं निरर्थकाः ॥ ३२१ ॥ सर्वादरान्मनुष्येण तस्मादाचार्यसेवया । पुण्यमेव सदा कार्य सिद्धिः पुण्यैर्विना कुतः ॥ ३२२॥ पश्य श्रेणिक पुण्यानां प्रभावं यद्दशाननः । असंपूर्णे गतः काले विद्यासिद्धिं महामनाः।। ३२३||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org