________________
१६५
पद्मपुराणम् ।
सप्तमं पर्व । उपद्रवार्थमेतेषां तत्क्षणं च प्रचंडवाक् । किंकराणामदादाज्ञामाज्ञादानप्रतीक्षिणां ॥ २८५॥ स्वभावेनैव ते क्रूराः प्राप्य त्वाज्ञां ततोधिका । नानारूपधराश्चक्रुः पुरस्तेषामिति क्रियाः॥२८६॥ कश्चिदुत्प्लुत्य वेगेन गृहीत्वा पर्वतोन्नतिं । पुरः पपात निर्घातान् घातयन्निव सर्वतः ॥ २८७॥ सर्पण वेष्टनं कश्चिञ्चके सर्वशरीरगं । भूत्वा च केशरी कश्चिद्यादायास्यं समागतः ॥ २८८ ॥ चक्रुरन्ये रवं कर्णे बधिरीकृतदिग्मुखं । दशहस्तिमरुद्दावसमुद्रत्वं गतास्तथा ॥ २८९ ॥ एवंविधैरुपायैस्ते यदा जग्मुर्न विक्रियां । ध्यानस्तंभसमासक्तनिश्चलस्वांतधारणाः ॥ २९० ॥ तदा म्लेच्छबलं भीमं चंडचंडालसंकुलं । करालमायुधैरुग्रैविकृतं तैस्तमोनिभं ॥ २९१ ॥ कृत्वा पुष्पांतकं ध्वस्तं विजित्य च किलाहवे । बध्वा रत्नश्रवास्तेषां दर्शितो बांधवैः सम।।२९२॥ अंतःपुरं च कुर्वाणं विप्रलापं मनश्छिदं । युष्मासु सत्सु पुत्रेषु दुःखप्राप्तमिति ध्वनन् ॥ २९३॥ पुत्रा रक्षत मा म्लेच्छर्हन्यमानं महावने । तेषामिति पुरः पित्रा प्रयुक्तो भूरिविप्लवः ॥ २९४ ।। ताड्यमाना च चंडालैर्माता निगडसंयुता । कचाकृष्टा विमुंचती धाराः नयनवारिणः ॥ २९५ ॥ जगाद पश्यतावस्थामीदृशीं मे सुता वने । नीताहं शवरैः पल्ली कथं युष्माकमग्रतः ॥ २९६ ॥ संभूय मम सर्वेपि लब्धविद्यावलाः अपि । एकस्यापि न पर्याप्ता भुजस्य व्योमचारिणः॥२९॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org