________________
१६४
पद्मपुराणम् ।
सप्तमं पर्व। भोगैर्विना न गात्राणामीदृशी जायते रुचिः । ईदृग्देहतया नापि शक्यते परतो भयं ॥ २७२ ॥ जटामुकुटभारः क क चेदं प्रथमं वयः । विरुद्धसंप्रयोगस्य स्रष्टारो यूयमुद्गताः ॥ २७३ ॥ पीतस्तनतटास्फालसुखसंगमनोचितौ । करौ शिलादिसंगेन किमर्थ प्रापितौ व्यथां ॥ २७४ ।। अहो इस्वीयसी बुद्धिर्युष्माकं रूपशालिनां । भोगोचितस्य देहस्य यत्कृतं दुःखयोजनं ॥२७॥ उत्तिष्ठत गृहं यामः किमद्यापि गतं बुधाः । सहास्माभिर्महाभोगान प्राप्नुत प्रियदर्शनान् २७६ ताभिरित्युदितं तेषां न चक्रे मानसे पदं । यथा सरोजिनीपत्रे पयसो बिंदुजालकं ॥ २७७ ॥ एवमूचुस्ततश्चान्याः सख्यः काष्ठमया इमे । निश्चलत्वं तथाह्येषां सर्वेष्वंगेषु दृश्यते ॥ २७८ ॥ अभिधायेति संक्रुध्य रभसादुपसृत्य च । विशाले हृदये चक्रुरवतंसेन ताडनं ॥ २७९ ॥ तथापि ते गताः क्षोभं नैवं प्रवणचेतसः । यतः कापुरुषा एव स्खलंति प्रस्तुताशयात् ॥२८॥ देवी निवेदनादृष्ट्वा जंबूद्वीपेशिना ततः । कृत्वा च स्मितमित्युक्ताः प्राप्तविस्मयचेतसा ॥२८॥ भो भो सुपुरुषाः कस्मात्तपश्चरत दुष्करं । आराधयत वा देवं कतरं वदताचिरात् ॥ २८२ ॥ इत्युक्तास्ते यदा तस्थुः पुस्तकर्मगता इव । तदा कोपेन यक्षाणां पतिरेवमभाषत ।। २८३ ॥ विस्मृत्य मामिमे देवं कमन्यं ध्यातुमुद्यताः। अहो चपलताऽमीषां परमेयममेधसां ॥ २८४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org