________________
क्यपुराणम् ।
सप्तमं पर्व । महागहरदेशस्वं सूच्यभेद्यतमश्चयं । कालेनैव स्वयं क्लिप्तं सन्निधानं सुभीषणं ॥ २५९ ॥ यस्योपरि न गच्छंति सुराश्चापि भयार्दिताः । यच्च भीमतया प्राप प्रसिद्धिं भुवनत्रये ॥२६॥ गिरयो दुर्गमा यत्र ध्वांतव्याप्तगुहाननाः । साराश्च तरवो लोकं ग्रसितुं प्रोद्यता इव ॥ २६१ ॥ अभिन्नचेतस्तत्र गृहीत्वा शममुत्तमं । दुराशारितात्मानो धवलांवरधारिणः ॥ २६१ ॥ पूर्णेदुसौम्यवदनाः शिखामणिविराजिताः । तपश्चरितुमारब्धास्त्रयोपि भ्रातरो महत् ॥ २६३ ॥ विद्याश्चाष्टाक्षरी नीता वश्यतां जपलक्षया । सर्वकामानदा नाम दिवसान तैस्ततः ।। २६४ ॥ अन्नं यथेप्सितं तेभ्यः सोपनिन्ये यतस्ततः । क्षुधाजनितमेतेषां संबभूव न पीडनं ॥ २६५॥ ततो जपितुमारब्धाः सुचित्ता षोडशाक्षरं । मंत्रकोटिसहस्राणि यस्या वृत्तिर्दशोदिताः॥२६६॥ जंबूद्वीपपतिर्यक्षस्तमथ स्वीभिरावृतः । अनावृत इति ख्यातः प्राप्तः क्रीडितुमिच्छया ॥ २६७ ॥ अंगनानां ततस्तस्य क्रीड़तीनां सुविभ्रमं । ते तपोनिहितात्मानः स्थिता लोचनगोचरे ॥२६८॥ रूपेण तास्ततस्तेषां समाकृष्य कचेष्विव । देव्यः समीपमानीताः कौतुकाकुलचेतसः ॥२६९ ॥ ऊचुस्तासामिदं काश्चित्कुंचितालकलासिना । वक्रेण सद्विरेफेण पद्मस्य श्रियमाश्रिताः ॥२७॥ निसांत सुकुमारांगा विसर्पकांतितेजसः । तपश्चरत कि कार्यमपरित्यक्तवाससः ॥ २७१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org