________________
पद्मपुराणम्।
१६१
सप्तमं पर्व ।
श्रीवत्समंडितोरस्को ध्यायिता ततविग्रहं । अद्भुतैकरसासिक्त नित्यचेष्टो महाबलः ॥ २४६ ॥ भस्मच्छन्नानिवद्भस्मीकर्तुं शक्तोखिलं जगत् । न मनो गोचरं प्राप्तो दशग्रीवः किमंब ते ॥ २४७ ॥ गत्या जयेदयं चित्तमनादरसमुच्छया । तटानि गिरिराजस्य पादथेच्च चप्रेदया ।। २४८ ॥ राजमार्गौ प्रतापस्य स्तंभौ भुवनवेश्मनः । अंकुरौ दर्पवृक्षस्य न ज्ञातावस्य ते भुजौ ॥ २४९ ॥ एवं कृतस्तवोऽथासौ भ्रात्रागुणकलाविदा । तेजो बहुतरं प्राप सर्पिषेत्र तनूनपात् ।। २५० ॥ जगाद चेति किं मातरात्मनोऽतिविकत्थया । वदामि शृणु यत्सत्यं वाक्यमेतदनुत्तरं ।। २५१ ॥ गर्विता अपि विद्याभिः संभूय मम खेचराः । एकस्यापि न पर्याप्ता भुजस्य रणमूर्द्धनि ॥ २५२ ॥ कुलचितं तथापीदं विद्याराधनसंज्ञकं । कर्मकर्तव्यमस्माभिस्तत्कुर्वाणैर्न लज्यते ॥ २५३ ॥ I कुर्वत्यराधनं यत्नात्साधवस्तपसो यथा । आराधनं तथा कृत्यं विद्यायाः खगगोत्रजैः ॥ २५४ ॥ इत्युक्त्वा धारयन्मानमनुजाभ्यां समन्वितः । पितृभ्यां चुंबितो मूर्द्धि कृतसिद्धनमस्कृतिः २५५ प्राप्त मंगलसंस्कारो निश्चय स्थिरमानसः । निर्गत्य मुदितोगेहादुत्पपात नभस्तलं ।। २५६ ।। क्षणात्प्राप्तं प्रविष्टश्च भीमं नाम महावनं । दंष्ट्राकरालवदनैः क्रूरसच्चैर्विदारितं ॥ २५७ ॥ सुप्ताजगरनिश्वासप्रेंखितोदारपादपं । नृत्यभ्यंतरसंघात पादक्षोभितभूतलं ।। २५८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org