________________
१६१
पद्मपुराणम् !
सप्तमं पर्व। ग्रसित्वेव विमुंचंतं बलेन पुरतो नमः । धीरो वैश्रवणं वीक्ष्यांचक्रे दृष्टया प्रगल्भया ॥ २३३ ॥ महिमानं च दृष्ट्वास्य पप्रच्छेति स मातरं । निमश्चपलभावश्च बालभावेन सस्मितः ॥ २३४ ॥ अब कोयमितो याति मन्यमानो निजौजसा । जगत्तणमिवाशेष बलेन महतावृतः ॥ २३५ ।।.. ततः साकथयत्तस्य मातृस्वस्रीय एष ते । सिद्धविद्यः श्रिया युक्तो महत्या लोककीर्तितः।।२३६॥ शत्रूणां जनयन्कंप पर्यटत्येष विष्टपं । महाविभवसंपन्नो द्वितीय इव भास्करः ॥ २३७ ॥ भवत्कुलकमायातां तवोद्धास्य पितामहं । अयं पाति पुरी लंका दत्तामिंद्रेण वैरिणा ॥ २३८ ॥ मनोरथशतान्येष जनकस्तव चिंतयन् । तदर्थ न दिवा निद्रां नच नक्तमवाप्नुते ॥ २३९ ॥ अहमप्यनया पुत्र चिंतया शोषमागता । अवाप्तं मरणं पुंसां स्वस्थानभ्रंशतो वरं ॥ २४० ॥ पुत्र लक्ष्मी कदा तु त्वं प्राप्स्यसि स्वकुलोचितां । विशल्यमिव यां दृष्ट्वा भविष्यत्यावयोमनः२४१ कदा नु भ्रातरावेतौ विभूत्या तव संगतौ । दृक्ष्यामि विहितच्छंदौ विष्टपे वीतकंटके ॥ २४२ ॥ मातुर्दीनवचः श्रुत्वा कृत्वा गवेसितं ततः। विभीषणो बभाणेदमुद्यत्क्रोधविषांकुरः ॥२४३ ॥ धनदो वाभवत्वेष देवो वा कोस्य वीक्षितः । प्रभावो येन मातस्त्वं करोषि परिदेवनं ॥२४४॥ वीरप्रसविनी वीरा विज्ञातजनचेष्टिता । एवंविधा सती कस्माद्वदसि त्वं यथेतरा ॥ २४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org