________________
१६०
सप्त पर्व । चारणेन समादिष्टं साधुना यद्वचः पुरा । इदं तद्वितथं नैव जायते यतिभाषितं ॥ २२० । दृष्ट्वाश्चर्य सहारोस्य जनन्या भीतिमुक्तया । पिनद्धो भाषयनाशा दशजालेन रोचिषां ॥ २२१ ॥ स्थूलस्वच्छेषु रत्नेषु नवान्यानि मुखानि यत् । हारे दृष्टानि यातोसौ तद्दशाननसंज्ञितां।।२२२॥ भानुकर्णस्ततो जातः कालेतीते कियत्यपि । यस्य भानुरिव न्यस्तः कर्णयोगंडशोभया ॥२२३॥ ततश्चंद्रनखा जाता पूर्णचंद्रसमानना । उद्यदर्द्धशशांकाभनखभासितदिग्मुखा ॥ २२४॥ ततो विभीषणो जातः कृतं येन विभीषणं । जातमात्रेण पापानां सौम्याकारेण साधुना ॥२२५॥ देहवत्त्वं जगामासौ साक्षाद्धर्म इवोत्तमः । अद्यापि गुणजा यस्य कीर्तिर्जगति निर्मला ॥२२६॥ बालक्रीडापि भीमाभूद्दशग्रीवस्य भास्वतः । कनीयसोस्तु सानंदं विदधे विद्विषामपि ।। २२७॥ शुशुभे भ्रातृमध्ये सा कन्या सुंदरविग्रहा । दिवसार्कशशांकानां मध्ये संध्येव सत्क्रिया ॥२२८॥ मातुरंके स्थितोथासौ धृतचूडः कुमारकः । दशाननो दशाशानां कुर्वन् ज्योत्स्ना द्विजत्विषा२२९ नमसा प्रस्थितं कापि द्योतयंतं दिशः विषा । युक्तं खेचरचक्रेण विभूतिबलशालिना ॥२३०॥ कक्षाविद्युत्कृतोद्योतैर्मदधाराविसर्जिभिः । वेष्टितं दंतिजीमूतैः कर्णशंखबलाहकैः ।। २३१ ॥ महता तूर्यनादेन श्रुतिवाधिर्यकारिणा । कुर्वाणं मुखरं चक्रं दिशां सुरपराक्रमं ॥ २३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org