________________
पद्मपुराणम् ।
१५९
सप्तमं पर्व ।
निष्ठुरत्वं शरीरस्य निर्जितश्रमवत्तरा । कठोरा घर्घरा वाणी दृष्टिपाताः परिस्फुटाः ॥ २०७ ॥ दर्पणे विद्यमानेपि सायकेऽपश्यदाननं । कथमप्यानमन्मूर्द्धा गुरूणामपि वंदने ॥ २०८ ॥ प्रतिपक्षासनाकंपं कुर्वन्नथ विनिर्गतः । संपूर्ण समये तस्याः कुक्षेः प्राणी सुदारुणः ॥ २०९ ॥ प्रभया तस्य जातस्य दिवाकरदुरीक्षया । परिवर्गस्य नेत्रौघाः सघनस्थगिता इव ॥ २१० ॥ भूतैश्च ताडनाद्भूतो दुंदुभेरुद्धतो ध्वनिः । कबंधैः शत्रुगेहेषु कृतमुत्पातनर्तनं ॥ २११ ॥ ततो जन्मोत्सवस्तस्य महान्पित्रा प्रवर्तितः । उन्मत्तिकेव यत्रासीत्प्रजा स्वेच्छाविधायिनी २१२ अथ मेरुगुहाकारे तस्मिन्सूतिगृहोदरे । शयने सस्मितस्तिष्ठन् रक्तपादतलश्चलः ॥ २१३ ॥ उत्तानः कंपयन् भूमिं लीलया शयनांतिकां । सद्यः समुच्छितादित्यमंडलोपमदर्शनः ॥ २१४ ॥ दत्तं राक्षसनाथेन मेघवाहनरूढये । पुरा नागसहस्रेण रक्षितं प्रस्फुरत्करं ।। २१५ ॥ पिनद्धं रक्षसां भीत्या न केनचिदिहांतरे । आदरेण विना हारं करेणाकर्षदर्भकः ॥ २१६ ॥ हारमुष्टिं ततो बालं दृष्ट्वा माता ससंभ्रमा । चकारांके महास्नेहात्समाजघ्रौ च मूर्द्धनि ॥ २१७ ॥
पिता च तं बालं सहारं परमाद्भुतं । महानेष नरः कोपि भवितेति व्यचिंतयत् ।। २१८ ।। नागेंद्र कृतरक्षण हारेण रमतेमुना । कोन्यथा यस्य नो शक्तिर्भविष्यति जनातिगा ॥ २१९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org