________________
पद्मपुराणम् |
१५८
सप्तमं पर्व । निधानं कर्मणामेष दारुणानां भविष्यति । वस्तुन्यूरीकृते तस्य न शक्रोपि निवर्तकः ॥ १९४ ॥ कृत्वा स्मितं ततो देवी परमप्रमदांचिता । भर्तुराननमालोक्य विनयादित्यभाषत ॥ १९५ ॥ अर्हन्मतामृतास्वादसुचित्ताभ्यां कथं प्रभो । आवाभ्यां प्राप्यजन्मायं क्रूरकर्मा भविष्यति १९६ आवयोर्ननु मज्जापि जिनवाक्येन भाविता । भवेदमृतवल्लीतो विषस्य प्रसवः कथं ॥ १९७ ॥ प्रत्युवाच च तामेवं प्रिये श्रृणु वरानने । कर्माणि कारणं तस्य न वयं कृत्यवस्तुनि ॥ १९८ ॥ मूलं हि कारणं कर्म स्वरूपविनियोजने । निमित्तमात्रमेवास्य जगतः पितरौ स्मृतौ ॥ १९९॥ भविष्यतोनुजावस्य जिनमार्गविशारदौ । गुणग्रामसमाकीर्णो सुचेष्टौ शीलसागरौ ॥ २००॥ सुदृढं सुकृते लग्नौ भवस्खलनभीतितः । सत्यवाक्यरतौ सर्वसत्त्वकारुण्यकारिणौ ॥ २०१॥ तयोरपि पुरोपात्तं सौम्यकर्म मृदुस्वने । कारणं करुणोपेते यतो हेतुसमं फलं ॥ २०२॥ एवमुक्त्वा जिनेंद्राणां ताभ्यां पूजा प्रवर्तिता । मनसापि प्रतीतेन प्रयाताभ्यामहर्दिवं ।। २०३ ॥ ततो गर्भस्थिते सत्वे प्रथमे मातुरीहितं । बभूव क्रूरमत्यंत हठनिर्जितपौरुषं ॥ २०४ ॥ अभ्यवांच्छत्पदं न्यासं कर्तुं मूर्द्धसु विद्विषां । रक्तकर्दमदिग्धेषु परिस्फुरणकारिषु ॥ २०५ ।। आज्ञां दातुमभिप्रायः सुरराज्येप्यजायत । हुंकारमुखरं चास्यमंतरेणापि कारणं ॥ २०६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org