SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १५७ सप्तम पर्व । विद्रावयन्मयूखैश्च ध्वांत गजंकुलासितं । स्थितो विहायसो मध्यादके कमलवांधवः ॥ १८ ॥ कुर्वन्मनोहरा लीलां दूरयन् तिमिरं करैः । अखंडमंडलो दृष्टः पुरः कुमुदनदनः ॥ १८२॥ दृष्टमात्रेषु चैतेषु विस्मयाक्रांतमानसा । प्रभाततूर्यनादेन गताहं वीतनिद्रतां ॥ १८३ ॥ किमेतदिति नाथ त्वं ज्ञातुमर्हसि सांप्रतं । ज्ञातव्येषु हि नारीणां प्रमाणं प्रियमानसं ॥१८४॥ ततोष्टांगनिमित्तज्ञः कुशलो जिनशासने । रत्नश्रवाः प्रमोदेन स्वप्नार्थान् व्यवृणोत्क्रमात् १८५ उत्पत्स्यते त्रयः पुत्राः त्रिजगद्गतकीर्तयः । तव देवि महासत्त्वाः कुलवृद्धिविधायिनः ॥१८६॥ भवांतरनिबद्धेन सुकृतेनोत्तमक्रियाः। वल्लमत्वं प्रपत्स्यते सुरेष्वपि सुरैः समाः ॥ १८७ ॥ । कात्युत्सारिततारेशाःदीप्त्युत्सारितभास्कराः । गांभीर्यजिततोयेशा स्थैर्यात्सारितभूधराः॥१८८।। चारुकर्मफलं भुक्त्वा स्वर्गे शेषस्य कर्मणः । परिपाकमवाप्स्यति सुरैरप्यपराजिताः ॥ १८९॥ दानेन कामजलदाः चक्रवर्तिसमद्धेयः । वरसीमंतिनीचेतोलोचनालीमलिम्लुचाः॥ १९०॥ श्रीवत्सलक्षणात्यंतराजितोत्तुंगवक्षसः । नाममात्रश्रुतिध्वस्तमहासाधनशत्रवः ॥ १९१ ॥ भविता प्रथमस्तेषां नितांतं जगते हितः । साहसैकरसासक्तः शत्रुपद्मक्षपाकरः ॥ १९२ ॥ संग्रामागमनात्तस्य भविष्यति समंततः । शरीरं निश्चितं चारोरुच्चरोमांचकंटकैः ॥ १९३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy