SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १५६ पर्व । वऋचंद्रेक्षिणी तस्या तस्य नित्यं व्यवस्थिते । सर्वेषां वा हृषीकाणां सा बभूवास्य बंधनं ।। १६८ । अनन्यजैकरूपेण यौवनेन धनश्रिया । विद्याबलेन धर्मेण शक्तिरासीत्परं तयोः ॥ १६९ ॥ व्रजंती व्रजयायुक्ते तिष्ठंती स्थितिमागते । छायेव साभवत्पत्यावनुवर्तनकारिणी || १७० ॥ अथासौ विपुले कांते क्षीराकूपारपांडुरे । रत्नद्वीपकृतालोके दुकूलपटकोमले ।। १७१ ॥ यथेष्टदेहविन्यस्तनानावर्णोपधानके । निःश्वासामोदनिर्निद्रद्विरेफसमुपासते ।। १७२ ॥ परितः स्थितयामश्रीविनिद्रनयनेक्षिते । तत्र दंतविनिर्माणपट्टके शयनोत्तमे ॥ १७३ ॥ चितयंती गुणान्पत्युर्मनो बंधन कारिणः । वांच्छंती च सुतोत्पत्तिं सुखं निद्रामुपागता ॥ १७४ ॥ ईक्षांचक्रे परान्स्वप्नान्महाविस्मयकारिणः । अव्यक्तचलनादायिसखी वीक्षितविग्रहा ।। १७५ ।। ततः प्रभाततूर्येण शंखशब्दानुकारिणा । मागधानां च वाणीभिः सापि प्रबोधमागता ॥ १७६ ॥ कृतमंगलकार्यार्थं नेपथ्यं दधती शुभं । सखीभिरन्विताऽऽगच्छन्मनोज्ञा भर्तुरंतिकं ॥ १७७ ॥ आसीना चांजलिं कृत्वा पत्युः पार्श्वे सुविभ्रमा । भद्रासनेंशुकच्छन्ने क्रमात्स्वप्रान्न्यवेदयत् १७८ अद्य रात्रौ मया या चरमे नाथ वीक्षिताः । त्रयः स्वमाः श्रुतौ तेषां प्रसादं कर्तुमर्हसि ॥ १७९ ॥ वृहद्वृंदं गजेंद्राणां ध्वंसयन्परमौजसा । कुक्षिमास्येन मे सिंहः प्रविष्टो नभसस्तलात् ॥ १८० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy