________________
पद्मपुराण ।
१५५
सप्तमं पर्व । सौकुमार्यादिवोदाराद्विभ्यतानतिनिर्भरं । यौवनेन कृताश्लेषां संभूतिं योषितः परां ॥ १५५ ॥ गृहीत्वेवाखिलढणं लावण्यं त्रिजगद्गतं । कर्मभिर्निर्मितां कर्तुमद्भुतं सावलौकिकं ॥ १५६ ॥ शरीरेणैव संयुक्तां साक्षाद्विद्यामुपागतां । वशीकृतामुदारेण तपसा कांतिशालिनीं ॥ १५७ ॥ पप्रच्छ प्रियया वाचा करुणावान् स्वभावतः । प्रमदासु विशेषेण कन्यकासु ततोधिकं ॥१५८॥ कस्यासि दुहिता बाले किमर्थं त्वमिहावनौ । एकाकिनी मृगीवास्मिन्यूयाद्मष्टावतिष्ठसे॥१५९।। के वा भजति ते वर्णा नाम पुण्यमनोरथैः । पक्षपातो भवत्येव योगिनामपि सज्जने ॥ १६० ॥ तस्मै साकथयद्वाचा गद्गदत्वमुपेतया । दधत्यात्यंतमाधुर्य चेतश्चोरणदक्षया ॥ १६१॥ उत्पन्ना नंदवत्यंगे व्योमविंदोरहं सुता । कैकसीति भवत्सेवां कर्तुं पित्रा निरूपिता ॥ १६२ ॥ तत्रैव समये तस्य सिद्धा. विद्या महौजसः । मानसस्तंभनी नाम्ना क्षणदर्शितविग्रहा ॥ १६३ ॥ ततो विद्याप्रभावेण तस्मिन्नेव महावने । पुरं पुष्पांतकं नाम क्षणात्तेन निवेशितं ॥ १६४॥ कृत्वा पाणिगृहीतां च कैकसी विधिना ततः । रेमे तत्र पुरे प्राप्य भोगान्मानसकल्पितान् १६५ बभूव च तयोःप्रीतिजायापत्योरनुत्तरा । क्षणार्द्धमपि नो सेहे वियोगं या सुचेतसोः ॥ १६६ ॥ मृतामिव स तो मेने लोचनागोचरस्थितां । निमेषादर्शनम्लानिं व्रजंती मृदुमानसां ॥ १६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org