________________
पद्मपुराणम् ।
१५४
सप्तमं पर्व। प्रसेकममृतेनैव चक्रे संभाषणेषु सः । महादानमिवोदात्तचरितो विततार च ॥ १४२ ॥ धर्मार्थकामकार्याणां मध्ये तस्य महामतेः । धर्म एव महान्यत्नो जन्मांतरगतावभूत् ॥ १४३ ॥ यशो विभूषणं तस्य भूषणानां सुभूषणं । गुणाः कीर्त्या समं तसिन्सकुटुंबा इव स्थिताः॥१४४॥ स भूतिं परमां वांच्छन् क्रमादग्रोत्रसमागतां । संत्याजितो निजं स्थानं पत्या स्वर्गनिवासिनां ॥ परित्यज्य भयं धीरो विद्या साधयितुं क्षमः । रौद्रं भूतपिशाचादिनादि पुष्पांतकं वनं ॥१४६॥ विद्याया विदितां पूर्वमथो तद्भामिनी सुतां । व्योमबिंदुर्ददावस्मै तपसे परिचारिकां ॥१४७॥ तस्य सा योगिनः पार्श्वे विनीता समवस्थिता । कृतांजलिपुटादेशं वांछंती तन्मुखोद्गतं ॥१४८॥ ततः समाप्तनियमः कृतसिद्धनमस्कृतिः । एकाकिनी सुतां बालां दृष्ट्वा सरललोचनां ॥ १४९ ॥ नीलोत्पलेक्षणां पद्मवक्रां कुंददलद्विजां । शिरीषमालिकाबाहुं पाटलादंतवाससां ।। १५०॥ बकुलामोदनिःश्वासां चम्पकत्विक्समत्विषं । कुसुमैरिव निःशेषां निर्मितां दधतीं तनुं ॥ १५१ ॥ मुक्तपद्मालयां पद्मां रूपेणैव वशीकृतां । परमोत्कंठयानीता पादविन्यस्तलोचनां ॥१५२ ॥ अपूर्वपुरुषालोकलज्जितानतविग्रहां । ससाध्वसविनिक्षिप्तनिःश्वासोत्कंपितस्तनीं ॥१५३ ॥ लावण्येन विलंपती पल्लवानंतिकीगतान् । निःश्वासाकृष्टमत्तालिकुलव्याकुलिताननां ॥१५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org