________________
२५३
पत्रपुराणम् ।
सतमं पर्व। एवमुक्तः सचाहूय शक्रेण कृतपूजनः । ब्रज लंकापुरी शाधि प्रियस्त्वं मम खेचरान् ॥ १२९॥ चतुर्णा लोकपालानामद्य प्रभृतिपंचमः । लोकपालो भव त्वं मे मत्प्रसादान्महाबलः ॥ १३०॥ यदाज्ञापयसीत्युक्त्वा कृत्वा चरणवंदनां । आपृच्छय पितरौ नत्वा निर्गतासौ सुमंगलं ॥१३१॥ अध्यतिष्ठच मुदितो लंकां शंकाविवर्जितः । विद्याधरसमूहेन शिरसा धृतशासनः ॥ १३२॥ प्रीतिमत्यां समुत्पन्नः सुमालितनयस्तु यः । नान्ना रत्नश्रवाः शूरस्त्यागी भुवनवत्सलः॥१३॥ मित्रोपकरणं यस्य जीवितं तुंगचेतसः । भृत्यानामुपकाराय प्रभुत्वं भूरि तेजसः ।। १३४ ॥ लब्धवर्णोपकाराय वैदग्ध्यं दग्धदुमेतेः । बंधूनामुपकाराय लक्ष्म्याश्च परिपालनं ॥ १३५ ॥ ईश्वरत्वं दरिद्राणामुपकाराथेमुन्नतं । साधूनामुपकारार्थ सर्वस्वं सर्वपालिनः ॥ १३६ ।। सुकृतस्मरणार्थ च मानसं मानशालिनः । धर्मोपकरणं चायुः वीर्योपकृतये वपुः ॥ १३७ ॥ पितेव प्राणिवर्गस्य यो बभूवानुकंपकः । सुकाल इव चातीतः स्मयेतेद्यापि जंतुभिः ॥ १३८॥ परस्त्रीमातृवद्यस्य शीलभूषणधारिणः । परद्रव्यं तृणवत्परश्च स्वशरीरवत् ॥ १३९ ॥ गुणिनां गणनायां यः प्रथमं गणितो बुधैः । दोषिणां च समुल्लापे स स्मृतो नैव जंतुभिः १४० अन्यैरिव महाभूतैः शरीरं तस्य निर्मितं । अन्यथा सा कुतः शोभा बभूवास्य तथाविधा।।१३१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org