________________
१५२
पपुराणम् ।
सममं पर्व । पुरस्य यस्य यन्नाम पृथिव्यां ख्यातिमागतं । तेनैव ख्यापिता नाम्ना पौरास्तव सुरेशिना ११६ असुराख्ये नभोगानां नगरे निवसंति ये । असुराख्या इमे जाताः सकले धरणीतले ॥ ११७ ॥ यक्षगीते पुरे यक्षाः किन्नराहे च किनराः । गंधर्वसंज्ञया ख्याताः पुरे गंधर्वनामनि ॥ ११८ ॥ अश्विनौ वसवो विश्वे वैश्वानरपुरस्सराः । कुर्वति त्रिदशकीडां विद्याबलसमन्विताः ॥ ११९ ॥ अवाप्य संभवं योनौ प्राप्यश्रीविस्तरं भुवि । प्रणतो भूरिलोकेन मन्यते स्वं सुरेश्वरं ॥ १२० ॥ इंद्रः स्वर्गः सुराश्चान्ये समस्तास्तस्य विस्मृताः । संपद्भिरतिमेतस्य नित्योत्सवविधायिनः १२१ स्वमिंद्रं पर्वतं स्वर्ग लोकपालान् खगेश्वरान् । निजांश्च सकलान्देवान्स मेने भूतिगर्वितः।।१२२॥ मत्तोस्ति न महान्कश्चित्पुरुषो भुवनत्रये । अहमेवास्य विश्वस्य प्रणेता विदिताखिलः ॥१२३॥ विद्याभृच्चक्रवर्चित्वमिति प्राप्य स गर्वितः । फलमन्वभवत्पूर्वजन्मोपात्तसुकर्मणः ।। १२४ ॥ भागेत्र यो व्यतिकातस्तं वृत्तांतमतः शृणु । धनदस्य समुत्पत्तिः श्रेणिक ज्ञायते यथा ॥१२५॥ व्योमविदुरिति ख्यातः पुरे कौतुकमंगले । भार्यानंदवती तस्यामुत्पचं दुहिताद्वयं ॥ १२६ ॥ कौशिकी ज्यायसी तत्र केकसी च कनीयसी । ज्येष्ठा विश्रवसे दत्ता पुरे यक्षविनिर्मिते॥१२७॥ तस्यां वैश्रवणो जातः शुभलक्षणविग्रहः । शतपत्रेक्षणः श्रीमानंगनानयनोत्सवः ॥ १२८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org