________________
पद्मपुराणम् ।
१५१
सप्तम पर्व। गवाक्षन्यस्तसन्नारीनयनालीनिरीक्षितः । युक्तः परमया भूत्या विवेश रथनूपुरं ॥ १०३ ॥ पित्रोश्च विनयात्पादौ प्रणनाम कृतांजलिः । तौ च पस्पृशतुर्गानं कंपिना तस्य पाणिना १०४ शत्रूनेव स निर्जित्य परमानंदमागतः । आस्वादयन्परं भोगं प्रजापालनतत्परः ॥ १०५॥ सुतरां स ततो लोके प्रसिद्धिं शक्रतां गतः । प्राप्तः स्वर्गप्रसिद्धिं च विजयार्द्धश्च भूधरः॥१०६॥ उत्पत्ति लोकपालानां तस्य वक्ष्यामि सांप्रतं । एकाग्रं मानसं कृत्वा श्रेणिकैषां निवुध्यतां १०७ स्वर्गलोकाच्च्युतो जातो मकरध्वजखेचरात् । संभूतो जठरे दित्या लोकपालोऽभवच्छशी १०८ कांतिमानेष शक्रेण द्योतिःसंगे पुरोत्तमे । पूर्वस्यां ककुभि न्यस्तो मुमुदे परमर्द्धिकः ॥ १०९ ॥ जातो मेघरथाभिख्यावरुणायां महाबलः । खेचरो वरुणो नाम संप्राप्तो लोकपालतां ॥ ११० ॥ पुरे मेघपुरे न्यस्तः पश्चिमायामसौ दिशि | पाशं प्रहरणं श्रुत्वा यस्य विभ्यति शत्रवः ॥१११॥ संभूतः कनकावल्यां किंसूर्येण महात्मना । कुवेराख्यो नभोगामी विभूत्या परयान्वितः ॥११२॥ कांचनाख्ये पुरे चायमुदीच्यां दिशि योजितः । संप्राप परमं भोगं प्रख्यातो जगति श्रिया ११३ संभूतः श्रीप्रभागर्भ कालाग्निव्योम्निचारिणः । चंडकर्मा यमो नाम तेजस्वी परमोभवत् ॥११४॥ दक्षिणोदन्वतो द्वीपे किष्कुनाग्नि पुरोत्तमे । स्थापितोसौ स्वपुण्यानां प्राप्नुवन्नूर्जितं फलं ११५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org