________________
पद्मपुराणम् ।
सप्तमं पर्व। परिवारेण सर्वेण निजेन सहितः क्षणात् । रणात्पलायनं चक्रे सुमाली नयपेशलः ॥ ९ ॥ तद्वधार्थ गतं शक्रमनुमार्गेण गत्वरं । उवाच प्रणतः सोमः स्वामिभक्तिपरायणः ॥ ९१ ॥ विद्यमाने प्रभो भृत्ये मादृशे शत्रुमारणे । प्रयत्नं कुरुषे कस्मात्स्वयं मे यच्छ शासतं ॥ ९२ ॥ एवमस्त्विति चोक्तसावनमार्ग रिपोर्गतः । वाणपुंजं विमुंचच करौघमिव शत्रुगं ॥ ९३ ॥ ततस्तदाहतं सैन्यं विशिखैः कपिरक्षसां । धाराहतं गवां यद्वत्कुलमाकुलतां गतं ।। ९४ ॥ पाप न क्षत्रमर्यादां त्वं जानासि मनागपि । जडवर्गपरिक्षिप्त इत्युक्तः प्राप्तकारिणा ॥ ९५ ॥ निवृत्य क्रोधदीप्तेन ततो माल्यवता शशी । गाढं स्तनांतरे भिन्नो भिंडिमालेन मूर्छितः ॥१६॥ अयं त्वाश्वास्यते यावन्मूर्छामीलितलोचनः । अंतर्भानं गतास्तावद्यातुधानप्लवंगमाः ॥ ९७॥ पुनर्जन्मेव ते प्राप्ता अलंकाराह्वयं पुरं । सिंहस्येव विनिःकांता जठरादागता सुखं ॥ ९८॥ प्रतिबुद्धःशशांकोपि दिशो वीक्ष्य रिपूज्झिताः । स्तूयमानो जयेनारेर्ययौ मघवतोंतिकं ॥१९॥ ध्वस्तशत्रुश्च सुत्रामा वंदिनां निवहैः स्तुतः । अन्वितो लोकपालानां चक्रवालेन तोषिणा॥१०॥ ऐरावतं समारूढश्चामरानिलवीजितः । सितच्छत्रकृतच्छायो नृत्यत्सुरपुरस्सरः ॥ १०१ ॥ रत्नांशुकध्वजन्यस्तशोभमुच्छ्रिततोरणं । आगुल्फपुष्पविशिखं सिक्तंकुंकुमवारिणा ॥ १०२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org