________________
पद्मपुराणम् ।
१४९
स्वप्तमं पर्व |
अथर्क्षसूर्यरजसावुत्तुंगकपिकेतुकौ । सीदतो राक्षसान् वीक्ष्य दुर्द्धरौ योद्धुमुद्यतौ ।। ७७ ।। दर्शिताः पृष्ठमेताभ्यां सर्वे ते सुरपुंगवाः । क्षणादन्यत्र दृष्टाभ्यां ददद्भ्यां वैद्युतं जवं ॥ ७८ ॥ यातुधाना अपि प्राप्य बलं ताभ्यां समुद्यताः । योद्धुं शस्त्रसमूहेन कुर्वाणा ध्वांतमंत्र ।। ७९ ।। ध्वंसमानं ततः सैन्यं दैवं जातु कपिध्वजैः । दृष्ट्वा क्रुद्धः समुत्तस्थौ स्वयं योद्धुं सुराधिपः ॥ ८० ॥ कपियातुधनैर्व्याप्तस्ततो देवेंद्रभूधरः । शस्रवर्षं विमुंचद्भिस्तारगर्जनकारिभिः ॥ ८१ ॥ निजगाद ततः शक्रः पालयन् लोकपालिनः । सर्वतो विशिखैर्मुक्तैर्वभंज कपिराक्षसान् ॥ ८२ ॥ अथ माली समुत्तस्थौ सैन्यं दृष्ट्वा समाकुलं । तेजसा क्रोधजातेन दीपयन् सकलं नभः ॥ ८३ ॥ अभवच्च ततो युद्धं मालींद्रमतिदारुणं । विस्मयव्याप्तचित्ताभ्यां सेनाभ्यां कृतदर्शनं ॥ ८४ ॥ मालिनो भालदेशेऽथ स्वकनामांकित शरं । आकर्णाकृष्टनिर्मुक्तं निचखान सुराधिपः ॥ ८५ ॥ संस्तंभ्य वेदनां क्रोधान्मालिनाप्यमरोचमः । ललाटस्य तटे शक्त्या हतो वेगविमुक्तया ||८६|| रक्तारुणितदेहं च माली द्राक्तमुपागतः । क्रोधारुणः सहस्रांशुर्यथास्तधरणीधरं ।। ८७ ।। भानुर्विबसमानेन चक्रेणास्य ततः शिरः । आभिमुख्यमुपेतस्य लूनं पत्या दिवौकसां ॥ ८८ ॥ भ्रातरं निहतं दृष्ट्वा नितांतं दुःखितस्ततः । चितयित्वा महावीर्यं चक्रिणां व्योम गामिनां ॥ ८९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org