________________
पद्मपुराणम् ।
सम्म पर्व। एवमुक्तास्ततो जग्मुरिंद्राभ्यास नभश्चराः । कृत्वांजलिं प्रणेमुश्च वृत्तांतं च न्यवेदयन् ॥ ६४ ॥ इंद्रस्ततोवदत्क्रुद्धो दर्पस्मितसिताननः । पार्श्वे व्यवस्थिते वजे दत्वा लोहितलोचने ॥६५॥ यत्नेन महतान्विष्य हंतव्या लोककंटकाः । किं पुनः स्वयमायाताः समीपं लोकपालिनः॥६६॥ ततो मत्तद्विपालानस्तंभमंगस्य कारणं । रणसंज्ञाविधानार्थं विषमं तूर्यमाहतं ॥ ६७ ॥ सन्नाहमंडनोपेता निरीयुश्च नभश्चराः । हेतिहस्ताः परं हर्ष विभ्राणा रणसंभ्रमं ॥ ६८ ॥ रथैरश्वैर्गजैरुष्ट्रः सिंहावृकर्मगैः । हंसच्छागैर्मेषैर्विमानैर्वहणैः खरैः ॥ ६९॥ लोकपालाश्च निर्जग्मुर्निजवर्गसमन्विताः । नानाहेतिप्रभाश्लिष्टाभ्रूभंगविषमाननाः ॥ ७० ॥ ऐरावतं समारुह्य कंकटच्छन्नविग्रहः । समुच्छ्रितसितच्छत्रोऽनिरैदिंद्रः समं सुरैः ॥७१ ॥ युगांतधनभीमानां ततः प्रववृते रणः । देवानां राक्षसानां च दुःप्रेक्ष्यः क्रूरचेष्टितः ॥ ७२ ।। सप्तिना पात्यते वाजी रथेन क्षोद्यते रथः । भज्यते दंतिना दंती पादातं च पदातिभिः ॥७३॥ प्रासमुद्गरचक्रासिभुषंडीमुशलेषुभिः । गदा कनकपाशैश्च छन्नं कृत्स्नं नभस्तलं ॥७॥ महोत्साहमथो सैन्यं पुरस्सरणदक्षिणं । दक्षिणं चलितोद्योगं देवानां निवहैः कृतं ॥ ७५ ॥ विद्युत्वान् चारुयानश्च चन्द्रो नित्यगतिस्तथा । चलद्योति प्रभाढयश्च रक्षसामक्षणोद्धलं ॥७६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org