________________
पद्मपुराणम् ।
१४७
सप्तमं पर्व । दंष्ट्रयोः प्रेक्षणं कुर्वन्क्षरद्दानस्य दंतिनः । चक्षुर्वित्रासितारातिस्तर्यमाणः शितैः शरैः ॥५१॥ दंतदष्टाधरो बद्धभृकुटी कुटिलाननः । विस्मितैरमरैदृष्टो भटः किं विनिवर्तते ॥ ५२ ॥ कंदरासु रतं मेरोनंदने चारुनंदिने । चैत्यालया जिनेंद्राणां कारिता गगनस्पृशः ॥ ५३॥ दत्तं किमिच्छकं दानं भुक्ता भोगा महागुणाः । यशोधवलिताशेषभुवनं समुपार्जितं ॥ ५४॥ जन्मनेत्थं कृतार्थोस्मि यदि प्राणान्महाहवे । परित्यजामि कियता कृतमन्येन वस्तुना ॥ ५५ ॥ असौ पलायितो भीतो वराक इति भाषितं । कथमाकर्णयेद्धीरो जनतायाः सुचेतसः ॥ ५६ ॥ इति संभाषमाणोसो भ्रातरं भामुराननः । विजयार्द्धस्य मूर्द्धानं क्षणादविदितं ययौ ।। ५७ ॥ ततोपमानितं ययः शासनं खेचराधिपः । तत्पुराणि ससामतैक्सयामास दारुणैः ॥ ५८॥ उद्यानानां महाध्वंसो जनितः क्रोधिभिः खगैः । यथा कमलखंडानां मातंगैर्मदमंथरैः ॥ ५९॥ ततः संवाध्यमाना सा प्रजा गगनचारिणां जगाम शरणं त्रस्ता सहस्रारं सवेपथुः ॥ ६॥ पादयोश्च प्रणम्योचे वचो दीनमिदं भृशं । सुकेशस्य सुतैर्वस्तां समस्तां नाथ पालय ॥ ६१॥ सहस्रारस्ततोवोचत्खगा गच्छत मत्सुतं । विज्ञापयत युष्माकं सपरित्राणकारणं ॥ ६२॥ त्रिविष्टपं यथा शक्रो रक्षस्यूर्जितशासनः । एवं लोकमिमं पाति स सर्व वृत्तसूदनः ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org