________________
पद्मपुराणम् ।
१४६
सप्तमं पर्व । विमानैर्विविधच्छायैः संध्यामेधैरिवोमतैः । महाप्रासादसंकाशैः स्यंदनैः कांचनाचितैः ॥ ३८ ॥ गर्घनाघनाकारैः सप्तिमिश्चित्तगामिभिः । शार्दूलैधंगरैर्गोभिर्मुगराजैः क्रमेलकैः ॥३९॥ वालेयैर्महिषर्हसैव॒कैरन्यैश्च वाहनः । खांगणं छादयन्सर्व महाभासुरविग्रहैः ॥ ४०॥ अथ मालिनमित्यूचे सुमाली भ्रातृवत्सलः । प्रदेशत्रैव तिष्ठामो भ्रातरद्य न गम्यते ॥४१॥ लंकां वा प्रतिगच्छामः शृणु कारणमत्र मे । अनिमित्तानि दृश्यते पुनः पुनरिहायने ॥४२॥ एकं संकोच्य चरणमत्यंताकुलमानसः । स्थितः शुष्कद्रुमस्याग्रे धुन्वन्पक्षान् पुनः पुनः ॥४३॥ शुष्ककाष्ठं दधचंच्या वीक्ष्यमाणो दिवाकरं । रसकरमयं धांक्षो निवारयति नो गतिं ॥ ४४ ॥ ज्वालारौद्रमुखी चेयं शिवा नो भुजदक्षिणे । घोरं विरौति रोमाणि हृष्टया निदधती मुहुः।।४५।। अयं पतंगबिंबे च परिवेषिणि दृश्यते । कबंधो भीषणो मुंचत्कीलाललवजालकः ॥ ४६॥ घोराः पतंति निर्घाताः कंपिताखिलपर्वताः । दृश्यंते वनिताः कृत्ला मुक्तकेश्यो नभस्तले॥४७॥ खरं खरः खमुत्क्षिप्य मुखं मुखरयनमः । क्षितिं खनन्खुराग्रेण दक्षिणः कुरुते स्वरं ॥ ४८॥ प्रत्युवाच ततो माली मुमालिनमिति स्फुटं । कृत्वा स्मितं दृढं बाहू केशराभ्यां निपीडयन् ॥४९॥ अभिप्रेत्य वधं शत्रोरारुह्य जयिनं द्विपं । प्रस्थितः पौरुषं विभ्रत्कथं भूपो निवर्तते ॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org