________________
प्रथम पर्व।
संगम बनमालाया अविवीर्यसमुन्नति । प्राप्तिं च जितपद्मायाः कौलदेशविभूषणं ।। ८३ ॥ चरितं कारणं रामं चैत्यानां वंशपर्वते । जटायुर्नियमप्राप्तिं पात्रदानफलोदयं ॥ ८४ ॥ महानागरथारोहं शंककविनिपातनं । कैकसेय्याश्च वृत्तांतं खरदूषणविग्रहं ।। ८५ ॥ सीताहरणशोकं च शोकं रामस्य दुर्द्धरं । विराधितस्यागमनं खरदूषणपंचतां ।। ८६ ॥ विद्यानां रत्नजटिनः छेदं सुग्रीवसंगमं । निधनं साहसगतेः सीतोदंतं विहायसा ॥ ८७ ॥ यानं बिभीषणायानं विद्याप्ति हरिपद्मयोः । इंद्रजित्कुंभकर्णाब्दस्वरपन्नगबंधनं ॥ ८८ ॥ सौमित्रिशक्तिनिर्भेदविशल्याशल्यताकृति । रावणस्य प्रवेशं च जिनशांतिगृहं शुभं ॥ ८९॥ लंकाभिभवनं प्रातिहार्य देवैः प्रकल्पितं । चक्रोत्पत्तिं च सौमित्र: कैकसेयस्य हिंसनं ॥९० ॥ विलापं तस्य नारीणां केवल्यागमनं ततः । दीक्षामिंद्राजिदादीनां सीतया सह संगमं ॥ ९१ ॥ • नारदस्य च संप्राप्तिमयोध्याया निवेशनं । पूर्वजन्मानुचरितं गजस्य भरतस्य च ॥ ९२ ॥ तत्प्रवृज्यां महाराज्यं सीरचक्रप्रहारिणः । लामं मनोरमायाश्च लक्ष्म्यालिंगितवक्षसः॥ ९३ ॥ संयुगे मरणप्राप्तिं सुमाधोलवणस्य च । मथुरायां सदेशायामुपसर्गविनाशनं ॥९४ ॥ सप्तर्षिसंश्रयात्सीतानिर्वासपरिदेवने । वज्रजंघपरित्राणं लवणांकुशसंभवं ॥ ९५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org