SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ पंद्मपुराणम् । प्रथमं पर्व । मधुपूर्वभवाख्यानमुपरंभाभिभाषणं । विद्यालाभं महेंद्रस्य राज्यलक्ष्मीपरिक्षयं ॥ ७० ॥ दशास्यमेरुगमनं पुनश्च विनिवर्तनं । अनंतवीर्यकैवल्यं दशास्यनियमग्रहं ॥ ७१ ॥ हनूमतः समुत्पत्तिं कपिकेतोर्महात्मनः । अष्टापदे महेंद्रेण प्रह्लादस्याभिभाषणं ॥ ७२ ॥ वायोः कोपं प्रसादं च तज्जायाप्रजनोज्झने । दिगंबरेण कथनं हनूमत्पूर्वजन्मनः ॥ ७३ ।। सूतिस्तनूरुहप्राप्ति प्रतिसूर्येण कारितं । भूताटवीं प्रविष्टस्य वायोरिभविलोकने ।। ७४ ॥ विद्याधरसमायोगमंजनादर्शनोत्सवं । वायुपुत्रसहायत्वं दारुणं परमं रणं ॥ ७५ ॥ रावणस्य महाराज्यं जैनमुत्सेधमंतरं । रामकेशवतच्छत्रुषखंडपरिवेष्टितं ॥ ७६ ॥ दशस्यंदनसंभूतिं कैकय्या वरसंपदं। पद्मलक्ष्मणशत्रुघ्नभरतानां समुद्भवं ॥ ७७॥ सीतोत्पत्ति प्रभाचक्रदूतं तन्मातृशोचनं । नारदालिखितां सीतां दृष्ट्वा भ्रातुर्विमूढतां ॥ ७८ ॥ स्वयंवराय वृत्तांतं चापरत्नस्य चोद्भवं । सर्वभूतशरण्यस्य दशस्यंदनदीक्षणं ॥ ७९ ॥ भाचक्रान्यभवज्ञानं विदेहायाश्च दर्शनं । कैकय्या वरतो राज्यप्रापणं भरतस्य च ॥ ८०॥ वैदेही पद्मसौमित्रिगमनं दक्षिणाशया । चेष्टितं वज्रकरणस्य लाभं कल्याणयोषितः ॥ ८१ ॥ रुद्रभूतिवशीकारं वालिखिल्यविमोचनं । निकारमरुणग्रामे रामपुर्याभिवेशनं ॥ ८२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy