________________
पद्मपुराणम् ।
वधाद्विजयसिंहस्य कोपं चाशनिवेगजं । अंध्रकांतमरिप्राप्तिं पुरसुंदरवेशनं ॥ ५७ ॥ किष्किंधपुरविन्यासं मधुपर्वतमूर्द्धनि । सुकेशनंदनादीनां लंकाप्राप्तिनिरूपणं ॥ ५८ ॥ निर्घातवधहेतुं मालिनः संपदं परां । दक्षिणे विजयार्द्धस्य भागे च रथनूपुरे ।। ५९ ।। पुरे जननमिंद्रस्य सर्वविद्याभृतां विभोः । मालिनः पंचतावाप्तिं जन्म वैश्रवणस्य च ॥ ६० ॥ पुष्पांतकसमावेशं तनयस्य सुमालिनः । कैकस्या सह संयोगं चारुस्वप्नावलोकनं ॥ ६१ ॥ दशाननस्य प्रजनं विद्यानां समुपासनं । अनावृतस्य संक्षोभमागमं च सुमालिनः ॥ ६२ ॥ मंदोदर्याः परिप्राप्तिं कन्यकानां निरीक्षणं । चेष्टितैर्भानुकर्णस्य कोपं वैश्रवणोद्भवम् ॥ ६३ ॥ यक्षराक्षससंग्रामं धनदस्य तपस्यनं । लंकागमं दशास्यस्य प्रश्नचैत्यावलोकने ॥ ६४ ॥ श्रीमतो हरिषेणस्य माहात्म्यं पापनाशनं । त्रिजग भूषणाभिख्यं द्विरदेंद्रविलोकनं ॥ ६५ ॥ यमस्थानच्युतं चार्करजः किष्किंध संगमं । चारणं कैकसेयाश्च खरालंकारसंश्रयं ॥ ६६ ॥ अनुराधामहादुःखं चंद्रोदयवियोगतः । विराधितपुरभ्रंशं सुग्रीव श्रीसमागमं ॥ ६७ ॥ वालेः प्रव्रजनं क्षोभमष्टापदमहीभृतः । सुग्रीवस्य सुताराया लाभं साहसगामिनः ॥ ६८ ॥ संतापं विजयार्द्धाद्रिगमनं रावणस्य च । अनरण्यसहस्रांशुवैराग्यं यज्ञनाशनं ॥ ६९ ॥
Jain Education International
प्रथमं पर्व ।
For Private & Personal Use Only
www.jainelibrary.org