________________
प्रथमं पर्व ।
भवांतरभवैर्भूरिप्रकारैश्चारुपर्वभिः । युक्ताः सप्त पुराणेस्मिन्नधिकारा इमे स्मृताः ॥ ४४ ॥ I पद्मचेष्टितसंबंधकारणं तावदत्र च । त्रैशलादिगतं वक्ष्ये सूत्रं संक्षेपि तद्यथा ॥ ४५ ॥ वीरस्य समवस्थानं कुशाग्रगिरिमूर्द्धनि । श्रेणिकस्य परिप्रश्नमिंद्र भूतेर्महात्मनः ॥ ४६ ॥ तत्र प्रश्न युमेयत्नामुत्पत्तिं कुलकारिणीं । भीतीच जगतो दुःखकारणाकस्मिकेक्षणात् ॥ ४७ ॥ ऋषभस्य समुत्पत्तिमभिषेकं नगाधिपे । उपदेशं च विविधं लोकस्यार्त्तिविनाशनं ॥ ४८ ॥ श्रामण्यं केवलोत्पत्तिमैश्वर्यं विष्टपातिगं । सर्वामराधिपायानं निर्वाणसुखसंगमं ॥ ४९ ॥ प्रधनं बाहुबलिनो भरतेन समं महत् । समुद्भवं द्विजातीनां कुतीर्थिकगणस्य च ॥ ५० ॥ इक्ष्वाकुप्रभृतीनां च वंशानां गुणकीर्तनं । विद्याधरसमुद्भूतिं विद्युद्दसमुद्भवं ॥ ५१ ॥ उपसर्गे जयंतस्य केवलज्ञानसंपदं । नागराजस्य संक्षोभं विद्याहरणसर्जने ॥ ५२ ॥ अजितस्यावतरणं पूर्णावुदसुतासुखं । विद्याधरकुमारस्य शरणं प्रतिसंश्रयं ॥ ५३ ॥ रक्षोनाथपरिप्राप्तिं रक्षोद्वीपसमाश्रयं । सगरस्य समुद्भूतिं दुःखदीक्षणनिर्वृतिं ॥ ५४ ॥ अतिक्रांत महारक्षो जन्मनः परिकीर्तनं । शाखामृगध्वजानां च प्रज्ञप्तिमतिविस्तरां ।। ५५ ।। तडित्प्रस्य चरितमुदधेरमरस्य च । किष्किंधांत्र खगोत्पादं श्रीमालाखेचरागमं ॥ ५६ ॥
प्राणम्।
Jain Education International
५
For Private & Personal Use Only
www.jainelibrary.org