________________
पंथ्यपुराणम् ।
प्रथम पर्व । श्रेष्ठावोष्ठौ च तावेव यौ सुकीर्तनवर्तिनौ । न शम्बूकास्य संभुक्तजलौकापृष्ठसन्निभौ ।। ३१॥ दंतास्तएव ये शांतकथासंगमरंजिताः । शेषाः सश्लेष्मनिर्वाणद्वारबंधाय केवलं ॥ ३२॥ मुखं श्रेय परिप्राप्तेर्मुखं मुख्यकथारतं । अन्यत्तु मलसंपूर्ण दंतकीटाकुलं बिलं ॥ ३३ ॥ वदिता योऽथवा श्रोता श्रेयसां वचसां नरः । पुमान् स एव शेषस्तु शिल्पिकल्पितकायवत् ३४ गुणदोषसमाहारे गुणान् गृहंति साधवः । क्षीरवारिसमाहारे हंसः क्षीरमिवाखिलं ॥ ३५॥ गुणदोषसमाहारे दोषान् गृहंत्यसाधकः । मुक्ताफलानि संत्यज्य काका मांसमिव द्विपात् ॥३६॥ अदोषामपि दोषोक्तां पश्यति रचनां खलाः । रविमूर्तिमिवोलूकास्तमालदलकालिकां ॥३७ ।। सरो-जलागमद्वारजालकानीव दुर्जनाः। धारयति सदा दोषान् गुणबंधनवर्जिताः ॥ ३८॥ स्वभावमिति संचिंत्य सज्जनस्येतरस्य च । प्रवर्तते कथाबंधे स्वार्थमुद्दिश्य साधवः ॥ ३९ ॥ सत्कथाश्रवणाद्यच्च सुखं संपद्यते नृणां । कृतिनां स्वार्थ एवासौ पुण्योपार्जनकारणं ॥ ४०॥ वर्द्धमानजिनेंद्रोक्तः सोयमर्थो गणेश्वरं । इंद्रभूति परिप्राप्तः सुधर्म धारिणीभवं ॥४१॥ प्रभवं क्रमतः कीर्तिं ततोनुत्तरवाग्मिनं । लिखितं तस्य संप्राप्य वेर्यनोयमुद्गतः ।। ४२ ॥ स्थितिवंशसमुत्पत्तिः प्रस्थानं संयुगं ततः । लवणांकुशसंभूतिर्भवोक्तिः परिनिर्वृतिः॥ १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org