________________
१४०
पद्मपुराणम् ।
पर्व ।
अनाख्येयमिदं वत्सा इति तौ विहितोत्तरौ । सुतरामनुबंधेन सुतैः पृष्टौ सचादुभिः ॥ ५३७ ॥ ततस्तेभ्यः सुकेशेन कथितं शृणुतात्मजाः । हेतुना विदितेनात्र यद्यवश्यं प्रयोजनं ॥ ५३८ ॥ पुर्यामशनिवेगेन लंकायां स्थापितः पुरा । निर्घातो नामतः क्रूरः खेचरो बलवानलं ।। ५३९ ॥ कुलक्रमेण सास्माकमागता नगरी शुभा । रिपोस्तस्माद्भयात्त्यक्त्वा नितांतमसुवत्प्रिया ॥ ५४०|| देशे देशे चरास्तेन नियुक्ताः पापकर्मणा । दत्तावधानाः सततमस्मच्छिद्र गवेषणे ।। ५४१ ।। यंत्राणि च प्रयुक्तानि यानि कुर्वेति मारणं । विदित्वा रमणाशक्तान्भवतो गगनांगणे ॥ ५४२ ॥ निम्नंति तानि रंध्रेषु कृत्वा रूपेण लोभनं । प्रमादाचरणानीवाशक्तं तपसि योगिनं ॥ ५४३ ॥ एवं निगदितं श्रुत्वा पितृदुःखानुचितनात् । निःश्वस्य मालिना दीर्घ समुद्भूताश्रुचक्षुषा ॥ ५४४ || क्रोधसंपूर्णचित्तेन कृत्वा गर्वस्मितं चिरं । निरीक्ष्य बाहुयुगलं प्रगल्भमिति भाषितं ।। ५४५ ।। इयंतं समयं तात कस्मानो न निवेदितं । अहो स्नेहापदेशेन गुरुणा वंचिता वयं ॥ ५४६ ॥ अविधाय नराः कार्यं ये गर्जति निरर्थकं । महांतं लाघवं लोके शक्तिमतोपि यांति ते || ५४७ || आस्तां ततः फले नैव शमतां तात यास्यसि । तन्मर्यादं कृतं चेदं मया चूडाविमोक्षणं । । ५४८ ।। अथामंगलभीताभ्यां वाचा ते न निवारिताः । पितृभ्यां तनया यात स्निग्धदृष्ट्यानुवीक्षिताः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org