________________
१३९
पद्मपुराणम् ।
पवं पर्व। तसाचं संभवं प्राप श्रीमालायां सुतद्वयं । ज्येष्ठः सूर्यरजा नाम ख्यातोऽक्षरजास्तथा ॥ ५२४ ॥ सुता च सूर्यकमला जाता कमलकोमला । यया विद्याधराः सर्वे शोभया विक्लवीकृताः॥५२५॥ अथ मेघपुरे राजा मेरुर्नाम नभश्वरः । मघोन्यां तेन संभूतो मृगारिदमनः सुतः ।। ५२६ ॥ तेन पर्यटता दृष्टा किष्किंधतनयान्यदा । तस्यामुत्कंठितो लेभे न स नक्तं दिवा सुखं ॥५२७॥ अभ्यर्थिता सुहृद्भिः सा तदर्थ सादरैस्ततः । संप्रधार्य समं देव्या दत्ता किष्किंधभूभृता ॥५२८।। निवृत्तं च विधानेन तयोर्विवाहमंगलं । किष्किंधनगरे रम्ये ध्वजादिकतभूषणे ॥ ५२९ ॥ प्रतिगच्छन् स तामूढा न्यवसत्कर्णपर्वते । कर्णकुंडलमेतेन नगरं तत्र निर्मितं ॥ ५३०॥ अलंकारपुरेशस्य सुकेशस्याथ सूनवः । इंद्राण्याः जन्म संप्रापुः क्रमेण पुरुविक्रमाः ॥ ५३१ ॥ अमीषा प्रथमो माली सुमाली चेति मध्यगाः । कनीयान्माल्यवान् ख्यातो विज्ञानगुणभूषणः॥ अहरन्मानसं पित्रोबंधूनां द्विषतां तथा । तेषां क्रीडाकुमाराणां देवानामिव चाद्भुता ॥ ५३३ ॥ सिद्धविद्यासमुद्भूतवीर्योतक्रियास्ततः । निवारिताः पितुभ्यां ते यत्नादिति पुनः पुनः॥५३४॥ रंतुं चेद्यात किष्किंधं पुत्रा कौमारचापलात् । माव्रजिष्ट समीप त्वं जातुचिद्दक्षिणांबुधेः ॥५३५॥ ततः प्रणम्य तौ पृष्टौ पितरौ तत्र कारणं । कुतूहलस्य वाहुल्याद्वीर्यशैशवसंभृतात् ॥ ५३६ ॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org