________________
पद्मपुराणम् ।
१३८
षष्ठं पर्व । देवि पश्याटवीं रम्यां कुसुमांचितपादपां । सीमंतिनीमिव स्वच्छमंदगत्यापगांभसां ॥ ५११ ॥ शरज्जलधराकारो राजतेयं महीधरः । मध्येस्याः शिखरैस्तुंगैधरणीमौलिसंज्ञितः ॥ ५१२ ॥ कुंदशुभ्रसमावर्तफेनमंडलमंडितैः । निर्झरैर्हसतीवायमहासेन भासुरः ॥ ५१३ ॥ पुष्पांजलि प्रकीर्यायं तरुशाखाभिरादरात् । अभ्युत्थानं करोतीव चलत्तरुवनेन नौ ॥ ५१४ ॥ पुष्पामोदसमृद्धेन वायुना घ्राणलेपिना । प्रत्युद्गती करोतीव नमनं च नमत्तरुः ॥ ५१५ ॥ वध्वेव धृतवान् गाढं व्रजंतं मामयं गुणैः । अतिक्रम्य न शक्नोमि गंतुमेतुं महीधरं ॥ ५१६ ॥ आलयं कल्पयाम्यत्र भूचरैरतिदुर्गमं । प्रसादं मानसं गच्छत्सूचयत्यत्र मे शुभं ॥ ५१७॥ अलंकारपुरावासे पातालोदरवर्तिने । खिन्नं खिन्नं मम स्वांतं रतिमत्र प्रयास्यति ॥ ५१८॥ इत्युक्त्वानुमतालापः प्रियया विस्मयाकुलः । उत्सारयन् घनवातमवतीर्णो धराधरं ॥ ५१९ ॥ सर्वबांधवयुक्तेन तेन स्वर्गसमं पुरं । क्षणातुंगप्रमोदेन रचितं गिरिमूर्द्धनि ।। ५२० ॥ अभिधानं कृतं चास्य निजमेव यशस्विना । यतोद्यापि पृथिव्यां तत्किष्किधपुरमुच्यते ॥५२१॥ पर्वतोपि स किष्किंधः प्रख्यातस्तस्य संगमात् । पूर्व तु मधुरित्यासीनाम तस्य जगद्गतं ॥५२२॥ सम्यग्दर्शनयुक्तोसौ जिनपूजासमुद्यतः । भुंजानः परमान्भोगान्सुखेन न्यवसचिरं ।। ५२३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org