________________
पद्मपुराणम् ।
१३७
षष्ठं पर्व /
निहतश्च तव भ्राता येन पापेन वैरिणा । प्रापितोसौ महांनिद्रां विशिखैरंध्रको मया ॥ ४९८ ॥ तस्मात्पुत्र निवर्तस्व नैतेस्माकं कृतागसः । अनुकंपा हि कर्तव्या महता दुःखिते जने ॥ ४९९ ॥ पृष्ठस्य दर्शनं येन कारितं कातरात्मना । जीवन्मृतस्य तस्यान्यत्क्रियतां किं मनस्विना ॥ ५०० ॥ यावदेवं सुतं शास्ति वज्रवेगो वशस्थितिं । अलंकारपुरं प्राप्तास्तावद्वानरराक्षसाः ।। ५०१ ।। पातालावस्थिते तत्र रत्नालोकचिते पुरे । तस्थुः शोकं प्रमोदं च वहंतो भयवर्जिताः ॥ ५०२ ॥ अन्यदाशनिवेगोथ दृष्ट्वा शरदि तोयदं । क्षणाद्विलयमायातं विरक्तो राज्यसंपदि ॥ ५०३ ॥ सुखं विषययोगेन विज्ञाय क्षणभंगुरं । मनुष्यजन्म चात्यंतदुर्लभं भवसंकटे ॥ ५०४ ॥ सहस्रारं सुतं राज्ये स्थापयित्वा विधानतः । समं विद्युत्कुमारेण बभूव श्रमणो महान् ||५०५ || शशासत्रांतरे लंकां निर्घातो नाम खेचरः । नियुक्तोशनिवेगेन महाविद्या पराक्रमः ।। ५०६ ॥ एकदोत्थाय बलिवत्पातालनगरोदरात् । स वनक्ष्माधरं पश्यन् शनैरवनिमंडलं ॥ ५०७ ॥ विदित्वोपशमप्राप्तान् शत्रून् भयविवर्जितः । स श्रीमालो गतो मेरुं किष्किंधो वंदितुं जिनं ५०८ प्रत्यागच्छंस्ततोपश्यद्दक्षिणोदन्वतस्तटे । अटवीं सुरकुर्वाभां पृथ्वीकर्ण तटाभिधां ।। ५०९ ।। श्रीमाला चाब्रवीदेनं वीणामिव सुखस्वरां । वक्षःस्थलस्थितां वामबाहुना कृतधारणां ॥५१० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org