________________
पद्मपुराणम् ।
१३६
षष्ठं पर्व।
शोकः प्रत्युत देहस्य शोषीकरणमुत्तमं । पापानामयमुद्रेकः महामोहप्रवेशनः ॥४८५ ॥ तदेवं वैरिणं शोकं परित्यज्य प्रसन्नधीः । कृत्ये कुरु मतिन्यासं नानुबंधं त्यजत्यरिः॥ ४८६ ।। मूढाः शोकमहापंके मन्नाः शेषामपि क्रियां । नाशयंति तदायत्तजीवितैर्वीक्षिता जनैः ॥४८७॥ बलीयान् वज्रवेगोयमस्मन्नाशस्य चिंतकः । प्रतिकर्तव्यमस्माभिश्चितनीयमिहाधुना ॥ ४८८॥ बलीयसि रिपौ गुप्तिं प्राप्य कालं नयेद बुधः । तत्र तावदवाप्नोति न विकारमरातिज(क) ४८९ प्राप्य तत्र स्थितः कालं कुतश्चिद् द्विगुणं रिपुं । साधयेनहि भूतीनां एकस्मिन्सर्वदा रतिः॥४९०॥ अतः परंपरायातमस्माकं कुलगोचरं । अलंकारपुरं नाम स्थानं मे स्मृतिमागतं ॥ ४९१॥ कुलवृद्धास्तमस्माकं शंसंत्यविदितं परैः । प्राप्य तत्स्वर्गलोकेपि न कुर्वीत पदं मनः ॥४९२ ॥ तस्मादुत्तिष्ठ गच्छामस्तत्पुरं रिपुदुर्गमं । अनयो हि महानेष यत्कालस्यातिपातनं ॥ ४९३ ॥ एवमन्विष्य न(निः)शोको यदा तीव्रो नि(न)वर्तते । श्रीमालादर्शनादस्य ततोसौ विनिवर्तितः॥ ततस्तौ परिवर्गेण समस्तेन समन्वितौ । प्रस्थितौ दर्शनं प्राप्तौ विद्युद्वाहनविद्विषः ॥ ४९५ ॥ ततोसौ पृष्ठतो गंतुं प्रवृत्तो धावतोस्तयोः । भ्रातृघातेन संक्रुद्धः शत्रुनिर्मूलनोद्यतः ॥ ४९६ ॥ भग्नाः किलानुसर्तव्याः शत्रवो नेति भाषितं । नीतिशास्त्रशरीरः पुरुषैः शुद्धबुद्धिभिः॥४९७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org