________________
पद्मपुराणम् ।
१३५
षष्ठ पर्व । विप्रलापं ततश्चके प्रतप्तः शोकवन्हिना । चिरं भ्रातृगुणध्यानकृतदुःखोर्मिसंततिः॥ ४७२॥ हा भ्रातर्मयि सत्येवं कथं प्राप्तोसि पंचतां । दक्षिणः पतितो बाहुस्त्वयि मे पातमागते॥४७३।। दुरात्मना कथं तेन पापेन विनिपातिते । शस्त्रं बाले त्वयि रं धिक्तमन्यायवर्तिनं ॥४७४ ॥ अपश्यन्नाकुलोऽभूवं यो भवंतं निमेषतः । सोहं वद कथं प्राणान् धारयिष्यामि सांप्रतं ॥४७५॥ अथवा निर्मितं चेतो वज्रेण मम दारुणं । यज्ज्ञात्वापि भवन्मृत्युं शरीरं न विमुंचति ॥ ४७६ ॥ बाल ते स्मितसंयुक्तं वीरगोष्ठीसमुद्भवं । स्मरन्स्फुटसमुल्लासं दुःखं प्रामोमि दुस्सहं ॥४७७॥ यद्यद्विचेष्टितं सार्द्ध क्रियमाणं त्वया पुरा । प्रसेकममृतेनेव कृतवत्सर्वगात्रकं ॥ ४७८॥ स्मर्यमाणं तदेवेदमधुना मरणं कथं । प्रयच्छति विषेणैव सेकं मर्मविदारणं ॥ ४७९॥ ततोसौ विलपन भूरि भ्रातृस्नेहातिविक्लवः । सुकेशादिभिरानीतः प्रबोधमिति भाषणात् ४८० युक्तमेतन धीराणां कर्तुं क्षुद्रविचेष्टितं । शोको हि पंडितैदृष्टः पिशाचो मिन्ननामकः ॥ ४८१॥ कर्मणां विनियोगेन वियोगः सह बंधुना । प्राप्ते तत्रापरं दुःखं शोको यच्छति संततं ॥ ४८२॥ प्रेक्षापूर्वप्रवृत्तेन जंतुना सप्रयोजनः । व्यापारः संततं कृत्यः शोकश्चायमनर्थकः ॥४८३॥ प्रत्यागमः कृते शोके प्रेतस्य यदि जायते । ततोन्यानपि संगृह्य विदधीत जनः शुचं ॥४८४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org