________________
१३४
पद्मपुराणम् ।
पवं पर्व । विदित्वा नगरं रुद्ध ततस्तौ वानरध्वजौ । तडित्केशिसमायुक्तौ निष्क्रांतौ रणलालसौ ॥४५९॥ गदाभिः शक्तिभिर्वाणैः पाशैः प्राशैर्महासिभिः । ततो दानवसैन्यं तद्ध्वस्तं वानरराक्षसैः ४६० दिशा ययांध्रको यातःकिष्किंधो वा महाहवे । सुकेशो वा तया जाता मार्गाश्चूर्णितखेचराः॥ तत्रपुत्रवधक्रोधवन्हिज्वालाप्रदीपितः । अंधकाभिमुखो जातो वज्रवेगः कृतध्वनिः॥ ४६२ ॥ बालोयमंधकः पापोशनिवेगोयसुद्धतः । इति ज्ञात्वोत्थितो योद्धं किष्किंधोशनिरंहसा ॥४६३॥ विद्युद्वाहननाम्नासौ तत्सुतेन पुरस्कृतः । अभवच्च तयोर्युद्धं दारजातं पराभवं ॥ ४६४ ॥ यावच्च तत्तयोयुद्धं वर्ततेत्यंतभीषणं । निहतोशनिवेगेन तावदंधकवानरः ॥ ४६५ ॥ । ततोसौ पतितो बालः क्षितौ तेजोविवर्जितः । प्रत्यूषशशिनश्च्छायां बभार गतचेतनः ॥४६६ ॥ किष्किंधेनापि निक्षिप्ता विद्युद्वाहनवक्षसि । शिला स ताडितो मूछों प्राप्य बोधं पुनर्गत:४६७ आदायतां शिलां तेन ततो वक्षसि ताडितः । किष्किंधोपि गतो मूछों चूर्णितेक्षणमानसः ४६८ लंकेंद्रेण ततो नीतः प्रेम संसक्तचेतसा । किष्कुं प्रमोदमुत्क्षिप्य चिरात्प्राप्तश्च चेतनां ।। ४६९ ॥ उन्मील्य स ततो नेत्रे यदा नापश्यदंध्रक । तदापृच्छन्मम भ्राता वर्तते केति पार्श्वगान् ॥४७॥ ततः प्रलयवातेन क्षोभितस्यांबुधेः समं । शुश्रावांतःपुरानंदमंधकध्वंसहेतुकं ॥ ४७१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org