________________
पद्मपुराणम् ।
षष्ठं पर्व । सहध्वं सांप्रतं वाचः परुषायाः फलं खलाः । दुःखगा इति तारेण ध्वनिना मुखराननाः॥४४६।। अपूर्वायाः पराभूते स्ततस्ते सहनाभ्रेशं । कपयोभिमूखीभूता हेतुं खेचरवाहिनं ॥ ४४७॥ गजा गजैस्ततः सार्धं रथारूढा रथस्थितैः । पदातयश्च पादातैः चकुयुद्धं सुदारुणं ॥ ४४८॥ सेनयोरुभयोर्जातस्ततस्तत्र रणो महान् । दूरस्थितामरवातजनितोदारविस्मयः॥४४९ ॥ श्रुत्वा च तत्क्षणं युद्धं सुकेशो राक्षसाधिपः । मनोरथ इवायातः किष्कंधांधकयोः सुहृत् ॥४५॥ अकंपनसुताहेतोयेथा युद्धमभूत्परं । तथेदमपि संवृत्तं बीजं युद्धस्य योषितः ॥ ४५१॥ यावच्च तुमुलं तेषां वर्तते खगरक्षसां । तावदादाय तां कन्यां किष्किधः कृतितां गतः ॥४५२॥ आहूय चाभियातस्य तावदंध्रकभूभृता । कृपाणेन शिरस्तुंगं जयसिंहस्य पातितं ॥ ४५३ ॥ तेनैकेन विना सैन्यमितश्चेतश्च तद्गतं । आत्मनेव विना देहे हृषीकाणां कुलं बलं ॥ ४५४ ॥ ततः सुतवधं श्रुत्वा वज्रेणेव समाहतः । शोकेनाशनिवेगोभून्मूझैधतमसावृतः ॥ ४५५ ॥ ततः स्वदारनेत्रांबुसिक्तवक्षःस्थलश्चिरात् । गतः प्रबोधमाकारं बभार क्रोधभीषणं ॥ ४५६ ॥ ततस्तस्य समाकारं परिवर्गोपि नेक्षितुं । शशाक प्रलयोत्पातभास्कराकारसन्निभं ॥ ४५७ ॥ सर्वविधाघरैः सार्धं ततोसौ शस्त्रभासुरैः । गत्वा किष्कुपुरस्याभूत्तुंगशाल इवापरः ॥ ४५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org