________________
पद्मपुराणम् ।
१३३
षष्ठी पर्व। निर्घाव्येतामिमावस्माद्देशाच्छाखामृगौ खलौ । वृथाविद्याधरीश्रद्धां दूर नयत चानयोः ॥४३३॥ रुष्टौ ततो वचोभिस्तौ परुषैर्वानरध्वजौ । महांत क्षोभमायातौ सिंहाविव गजान्प्रति ॥ ४३४॥ ततः स्वामिपरीवादमहावाताहता सती । गता क्षोभं चमूवेला रौद्रचेष्टाविधायिनी ॥४३५ ॥ कश्चिदास्फालयद्वाममंसं दक्षिणपाणिना । वेगाघातसमुत्सर्पद्रक्तशीकरजालकं ॥ ४३६ ॥ कश्चिद् दृष्टिं विचिक्षेप क्षेपीयः क्षुब्धमानसः । कोपावेशारुणां भीमां प्रलयोल्कामिवारिषु॥४३७॥ कश्चिद्दक्षिणहस्तेन वक्षः कंप्रेण कोपतः । अस्पृक्षत्सकलं क्रूरकर्म वांच्छन् महास्पदं ॥४३८॥ करं करेण कश्चिच्च स्मितयुक्तमताडयत् । तथा यथा गतः पाथः श्रुतेः बधिरतां चिरं ॥४३९॥ मूलजालदृढाबद्धमहापीठस्य शाखिनः । कश्चिदुन्मूलनं चक्रे चलत्पल्लवधारिणः ॥ ४४०॥ मंचस्य स्तंभमादाय बभंजांसे परः कपिः । क्षुद्रभंगैनभस्तस्य व्याप्तमंतरवर्जितैः ॥ ४४१॥ गानं वलितमेकेन स्फुटद् दृढवृणांकितं । शोणितोदारधाराभिरुत्पातघनसन्निभं ॥४४२॥ कृताट्टहासमन्येन हसितं विवृताननं । शब्दात्मिकमिवाशेषं कुर्वता भुवनांतरं ॥ ४४३ ।। धूतोन्येन जटाभारच्छन्नाशेषदिगाननः । छायया तस्य संजाता शवेरीव तदा चिरं ॥ ४४४॥ संकोचिते भुजे कश्चिद्वामे दक्षिणपाणिना । चकार ताडनं घोरं निर्घातापातभीषणं ॥४४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org