________________
वापुराणम् ।
षष्ठं पर्व ।
तुरीयं वा सृजेल्लोकं सूर्य वा चंद्रशीतलं । चूर्णयेद्वा धराधीशं स्थापयेद्वानिलं स्थिरं ।। ४२० ।। शोषयेद्वांभसां नाथं मूर्त्त कुर्वीत वा नभः । भाषितेनोरुणा किं वा भवेद्यस्य यथेप्सितं ||२१|| तत्रापि न मनस्तस्याश्च स्थानमयुक्तिकं । वदत्येषेति चाज्ञासीत्सर्वशास्त्रकृतश्रमा ॥ ४२२ ॥ अन्यानपि बहूनेवं धात्रीदर्शित संपदः । विद्याबलसमायुक्तान्कन्या तत्याज खेचरान् ॥ ४२३ ॥ ततोसौ चंद्रलेखेव व्यतीयाय नमश्वरान् । पर्वता इव ते प्राप्ताः श्यामतां शोकवाहिनः || ४२४|| खेचराणां विलक्षाणां दृष्ट्ान्योन्यं गतत्विषां । प्रवेष्टुं धरणीमासीदभिप्रायखपावतः || ४२५ ।। अपकर्ण्य ततो धात्रीं खेचरद्युतिवर्णिनीं । तस्याः पपात किष्कंधकुमारे दृष्टिरादरात् ॥ ४२६ ॥ ततो मालागुणः कंठे दृष्टिरेवास्य संगतः । अन्योन्यं च समालापः स्निग्धया रचितानया ।। ४२७|| ततो विजयसिंहस्य किष्कंधांत्रक योगता । दृष्टिराहूय तावेवं विद्यावीर्येण गर्वितः ॥ ४२८ ॥ विद्याधरसमाजोयं क भवताविहागतौ । विरूपदर्शनौ क्षुद्रौ वानरौ विनयच्युतौ ॥। ४२९ ॥ नेह देशे वनं रम्यं फलैरस्ति कृतानतिः । नवा निर्झरधारिण्यः सुंदरा गिरिकंदराः || ४३० ॥ वृंदानि वानरीणां वा कुर्वति कुविचेष्टितं । मांसलोहितवत्राणां प्रवृत्तानां यथेप्सितं ।। ४३१ ॥ आहूताविह केनैतौ पशुकपिनिशाचरौ । दूताभ्रमस्य तस्याय करोमि विनिपातनं ।। ४३२ ।।
१३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org