________________
१३०
पद्मपुराणम् ।
षष्ठं पर्व । याति चेदिह ते चेतः प्रसादं सौम्यदर्शने । रजनीव शशांकेन लभस्वेतेन संममं ॥४०७॥ ततस्तस्मिन्नपि प्रीतिं न मनोस्याः समागतं । कमलिन्या यथा चंद्रे नयनानंदकारिणि ॥४०८॥ पुनराह ततो धात्री कन्ये पश्य पुरंदरं । अवतीर्ण महीमेतं भवतीसंगलालसं ।। ४०९ ॥ सुतोयं मेरुकांतस्य श्रीरंभागर्भसंभवः । स्वामी मंदरकुंजस्य पुरस्यांभोधरध्वनिः ॥ ४१०॥ शक्ता यस्य न संग्रामे दृष्टिं सम्मुखमागतां । प्रतिपत्तुं कुतो वाणान् शत्रवो भयदारिताः ४११ संभावयामि देवानां नाथोप्यस्माद् व्रजेद्भयं । अभनप्रसरो ह्यस्य प्रतापो भ्रमति क्षितिं ॥४१२॥ उन्नतं चरणेनास्य शिरस्ताडय सुस्वने । प्रस्तावे प्रेमयुक्तेषु कलहेषु नितंविनि ॥ ४१३ ॥ असावपि ततस्तस्या न लेभे मानसे पदं । चित्रा हि चेतसो वृत्तिः प्रजानां कमेहेतुका ॥४१४॥ अभाषयदिमां बालां ततोन्यं व्योमचारिणं । धात्री सदासरस्यजं हंसीमुत्कलिका यथा॥४१५॥ उवाच च सुते पश्य नृपमेतं महाबलं । मनोजवेन वेगिन्यां संभूतं वायुरंहसं ॥ ४१६ ॥ नाकार्द्धसंज्ञकस्यायं पुरस्य परिरक्षिता । अतिक्रम्य स्थिता यस्य गणतां विमला गुणाः॥४१७॥ भ्रूसमुत्क्षेपमात्रेण सर्व यः क्षितिमंडलं । भ्राम्यति स्वांगवेगोत्थवातपातितभूधरः ॥ ४१८॥ विद्याबलेच यः कुर्याद् भूमिं गगनमध्यगां । दर्शयेद्वा ग्रहान्सर्वान् धरणीतलचारिणः ॥४१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org