________________
पद्मपुराणम् ।
षष्ठ पर्व । अस्यांके यदि ते प्रीतिः स्थातुमस्ति मनोहरे । गृहाणैनं तडिन्माला युज्यतां मंदराद्रिणा ३९४ ततः प्रत्याचचक्षे तं चक्षुषैवर्जुदर्शनात् । वांछिते हि वरत्वेन दृष्टिश्चंचलतां व्रजेत् ॥ ३९५॥ ततोसौ तदभिप्रायवेदिनी तां सुमंगला । अपरं दर्शयन्ती न-रेशमिति चावदत् ॥ ३९६ ॥ वज्रायुधस्य पुत्रोयं वज्रशीलांगसंभवः । वज्रपंजरनामानमधितिष्ठति पत्तनं ॥ ३९७॥ अस्य बाहुद्वये लक्ष्मीर्दिनेशकरभासुरे । चंचलापि स्वभावेन संयतेवावतिष्ठते ॥ ३९८ ॥ सत्यमन्येपि विद्यते नाममात्रेण खेचराः । तेषां खद्योततुल्यानामयं भास्करतां गतः॥ ३९९ ॥ मानेन तुंगतामस्य प्राप्तस्य शिरसः परां । संप्राप्तुं पुनरुत्कर्ष मुकुटं स्फुटरत्नकं ॥ ४०॥ स्वरूपे प्रतिपद्यस्व पति विद्याभृतामिमं । विषयांश्चेत्समान् शच्या भोक्तुं धीस्तव विद्यते॥४०१॥ ततः खेचरभानुं तं दृष्ट्वा कन्या कुमुदती । संकोचं परमं याता धात्र्येति गदिता पुनः॥ ४०२॥ चित्रांवरस्य पुत्रोयं पद्मश्रीकुक्षिसंभवः । नित्यं चंद्रपुराधीशो नाम्ना चंद्राननो नृपः ॥ ४०३ ॥ पश्य वक्षोस्य विस्तीर्णं चारुचंदनचर्चितं । चंद्ररश्मिपरिष्वक्तं कैलाशतटसन्निभं ॥ ४०४ ।। उच्छलत्करभारोस्य हारो वक्षसि राजते । उत्सर्पत्सीकरो दूर कैलाश इव निझरः ॥ ४०५॥ नामाक्षरकरैरस्य मनश्लिष्टमरेरपि । प्रयाति परमं ल्हादं दुःखतापविवर्जितं ॥ ४०६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org