SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ षष्ठ पर्व । पद्मपुराणम् । मंगलानि प्रयुक्तानि वंदिभिवृद्धवृंदकैः । महापुरुषचेष्टाभिर्निबद्धानि प्रमोदिभिः ॥ ३८१॥ महानादस्य तस्यांते धात्री नाना सुमंगला । वामेतरकरोपात्तहेमवेत्रलता ततः ॥ ३८२ ॥ जगाद वचनं कन्यां विनयादानताननां । प्राप्तकल्पलताकारां मणिहेमविभूषणैः ॥ ३८३ ॥ सख्यां सन्यस्तविस्रसिमृदुपाणिसरोरुहां । ऊर्द्धस्थिता स्थितामूर्द्ध मकरध्वजवर्णिनीं ॥ ३८४ ॥ नभस्तिलकनाम्नीयं नगरस्य पतिः सुते । उत्पन्नो विमलायां च चंद्रकुंडलभूपतेः ॥ ३८५ ॥ मार्तडकुंडलो नाम्ना मातंडविजयी रुचा । प्रकांडतां परां प्राप्तो मंडलायो गुणात्मकात् ॥३८६॥ गुणचिताप्रवृत्तासु गोष्ठीष्वस्यादितो बुधाः । नाम गहूति रोमांचकंटकव्याप्तविग्रहाः ॥ ३८७॥ साकमेतेन रंतुं चेदस्ति ते मनसः स्पृहा । वृणीष्वैनं ततो दृष्टसमस्तग्रंथगर्भकं ॥ ३८८ ॥ ततस्तं यौवनादीपत्प्रच्युतं खेचराधिपं । आननानतिमात्रेण प्रत्याख्यातवती शुभा ॥ ३८९ ॥ भूयोऽवदत्ततो धात्री तनये यच्छ लोचने । पुरुषाणामधीशस्मिन् कांतिदीप्तिविभूतिभिः ॥३९०॥ अयं रत्नपुराधीशो लक्ष्मीविद्यांगयोः सुतः । नाना विद्यासमुद्धातो बहुविद्याधराधिपः ॥३९१॥ अस्य नाम्नि गते कर्णजाहं वीरप्रकीर्तने । शत्रवो गृह्णते वातधूताश्वस्थदलस्थितिं ॥ ३९२ ॥ अस्य वक्षसि विस्तीर्णे कृतहारोपधानके । कुनृपभ्रांतिभिः खिन्ना लक्ष्मी विश्रांतिमागता ३९३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy