________________
पद्मपुराणम् ।
१२७
षष्ठं पर्व। प्रदेशेपि स्थितां कश्चिदुज्ज्वलामसिपुत्रिकां । असारयत्कराग्रेण कटाक्षकृतवीक्षणां ॥ ३६८ ॥ पार्श्वगे पुरुषे कश्चिञ्चलयत्येव चामरं । सलीलमंशुकांतेन चक्रे वीजनमानने ॥ ३६९ ॥ सव्येन वक्रमाच्छाद्य कश्चिदुत्तलपाणिना । संकोच्य दक्षिणं बाहुं व्याक्षिपदद्धमुष्टिकं ॥ ३७० ॥ पादासनस्थितं कश्चिदुद्यम्य चरणं शनैः । वामोरुफलके चक्रे दक्षिणं रतिदक्षिणः ॥ ३७१ ॥ पादांगुष्ठेन कश्चिच नेत्रांतेक्षितकन्यकः । कृत्वा पाणितले गंडं लिलेख चरणाशनं ॥ ३७२ ॥ गाढमप्यपरो बद्धमुन्मुच्य कटिसूत्रकं । बबंध शनकैर्भूयः शेषाभमणिचक्रकं ।। ३७३ ॥ स्फुटदन्योन्यसंदष्टः प्रोत्तानविकरांगुलिः । वक्षः कश्चित्समुद्यम्य बाहुतोरणमूर्द्धयत् ॥ ३७४ ॥ पार्श्वस्थस्यापरो हस्तं सख्युरास्फाल्य सस्मितं । कथां चक्रे विना हेतोः कन्याक्षिप्तचलेक्षणः३७५ कृतचंदनचर्चेन्यः कुंकुमस्थासकाचिते । चक्षुर्वक्षसि चिक्षेप विशाले कृतहस्तके ।। ३७६ ॥ कश्चित्कुंतलभालस्थां गृहीत्वा केशवल्लरीं । कुटिलामपि वामायां प्रदेशिन्यामयोजयत् ॥ ३७७॥ अधरं कश्चिदाकृष्य वामहस्तेन मंथरं । स्वच्छतांबूलसच्छायमैक्षिष्टभ्रुवमुन्नयन् ।। ३७८ ॥ अपरो भ्रमयत्पद्मं बद्धभ्रमरमंडलं । सव्येतरेण हस्तेन विसर्पन कर्णिकारजः ॥ ३७९ ॥ वीणाभिर्वेणुभिः शंखैर्मृदंगैझल्लरैस्तथा । जनितोथ महानादः काहलानकमंडकैः ॥ ३८०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org