________________
१२६
पद्मपुराणम् ।
षष्ठं पर्व । ततस्तावुद्यतौ कृत्यं भ्रातरौ भुवि चक्रतुः । अन्योन्याक्रांततेजस्कौ सूर्याचंद्रमसाविव ॥ ३५५॥ अत्रांतरे नभोगानां पर्वते दक्षिणे स्थितौ । रथनूपुरनामास्ति पुरं सुरपुराकृतिः ॥ ३५६ ॥ आसीत्तत्रोभयोः श्रेण्योः स्वामी भूरिपराक्रमः । दधावशनिवेगाख्यां यः शत्रुत्रासकारिणीं ॥३५७।। पुत्रो विजयसिंहश्वनाम्नादित्यपुरं परं । वांछन् रूपावलेपेन प्रयातोथ स्वयंवरं ॥ ३५८ ॥ विद्यामंदरसंज्ञस्य सुतामंबरचारिणः । वेगवत्यां समुत्पन्नां कांतिदिग्धनभस्तलां ॥ ३५९ ॥ अथासौ यौवनप्राप्तां वीक्ष्य पुत्री मनोहराम् । स्वजनानुमतोमोहात्स्वयंवरमरीरचत् ॥ ३६०॥ अपरेपि खगाः सर्वे विमानैर्मणिशालिभिः । पूरयंतो नभः शीघ्रं गताः भूषितविग्रहाः ॥ ३६१ ॥ ततो मंचेषु रम्येषु रत्नस्तंभधृतात्मसु । तुंगासनसमृद्धेषु स्फुरन्मणिमरीचिषु ॥ ३६२ ॥ मितेन परिवारेण युक्ता देहोपयोगिना । उपविष्टा यथास्थानं प्रधाना व्योमचारिणः ।। ३६३ ॥ श्रीमालायां ततस्तेषां सर्वेषां व्योमचारिणां । मध्यस्थायां समं पेतुर्दृष्टंदीवरपंक्तयः॥ ३६४ ॥ अथ स्वयंवराशानां प्रवृत्ता व्योमचारिणां । मदनाश्लिष्टचित्तानां इति सुंदरविभ्रमा ॥३६५॥ निष्कंपमपि मूर्द्धस्थं मुकुटं कश्चिदुन्नतं । अकरोत्किल निष्कंपं रत्नांशुच्छन्नपाणिना ॥ ३६६ ॥ कश्चित्कपरमाधाय कटिपार्श्वे सजृभणः । चक्रे देहस्य बलनं स्फुटत्संधिकृतस्वनं ॥ ३६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org