________________
पद्मपुराणम् ।
१३५
षष्ठं पर्व ।
तवार्पितः परप्रीत्या तडित्केशेन बालकः । सुकेशो नवराज्यस्थः पालनीयः सुतोधुना ॥ ३४२ ॥ इति विज्ञाप्यमानपि युवराजेन सादरं । नेत्रमेधजलस्थूलधारावर्षविधायिना ॥ ३४३ ॥ निष्कंटकमिदं राज्यं भुंक्ष्व तावन्महागुणं । पुरंदर इवोदारैर्भोगैर्मानय यौवनं ॥ २४४ ॥ एवं संचोद्यमानोपि मंत्रिभिर्दूनमानसैः । बहुभेदान्युदाहृत्य शास्त्राणि नयकोविदैः ॥ ३४५ ॥ अनाथान्नाथ नः कृत्वा त्वन्मनः स्थितमानसान् । विहाय प्रस्थितः क्वासि लता इव महातरुः ३४६ इति प्रसाद्यमानोपि चरणानतमूर्द्धभिः । गुणौघप्रियकारीभिर्नारीभिः क्षरदश्रुभिः || ३४७ ॥ tarai कालं चिरं सतीम् । प्रतिभज्य महालक्ष्मी योजितां ललितां सदा ॥ ३४८ ॥ व्रजसि क्वेति सामंतैर्गडांतैरश्रुधारिभिः । समं विज्ञाप्यमानोपि नृपाटोपविवर्जितैः ॥ ३४९ ॥ छित्वा स्नेहमयान्पाशान् त्यक्त्वा सर्वपरिग्रहं । प्रतिचंद्राभिधानाय दत्वा पुत्राय संपदं ।। ३५० || विग्रहेपि निरासंगो जग्राहाग्रां समग्रधीः । धीरो दैगंबरी लक्ष्मी क्ष्मातल स्थिरचंद्रमाः || ३५१॥ ततोध्यानगजारूढस्तपस्तीक्ष्णपतत्रिणा । शिरश्छित्वा भवारातेः प्रविष्टः सिद्धकाननं ॥ ३५२ || प्रतरपि पुत्राय किष्किंधाय ददौ श्रियं । यौवराज्यं कनिष्ठाय तस्मै चांत्रकरूढये ॥ ३५३ ॥ अन्येद्युः प्रतिपन्नश्च जैनमार्ग निरंबरं । सिद्धैरासेवितं स्थानं गतश्वामलयोगतः ॥ ३५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org