________________
पद्मपुराणम् ।
१२४
षष्ठं पर्व।
एवं ज्ञात्वा पुनर्वैरं मुंचतं देवखेचरौ । माभूभृयोपि संसारे भवतोः परिहिंडनं ॥३२९॥ वांच्छतं नरमात्रेण शक्यं यन्न प्रशंसितुं । सिद्धानां तत्सुखं भद्रो भद्राचारपरायणौ ॥ ३३०॥ नमतं प्रणतं देवैराखंडलपुरस्सरैः । भक्त्या परमया युक्तौ मुनिसुव्रतमीश्वरं ॥३३१॥ शरणं प्राप्य तं नाथं निष्ठितात्मप्रतिक्रियं । परकृत्यसमुद्युक्तं प्राप्स्यथः परमं सुखं ॥३३२ ॥ ततो मुनिमुखादित्यान्निर्गतेन वचोंशुना । परं प्रवोधमानीतस्तडित्केशः सरोजवत् ॥ ३३३॥ सुकेशसंज्ञके पुत्रे संक्रमय्य निजं पदं । शिष्यतामगमद्वीरो मुनेरंबरचारिणः ॥३३४॥ सम्यग्दर्शनसंज्ञानसच्चारित्रत्रयं ततः । समाराध्य गतः कालं बभूवामरसत्तमः ॥ ३३५ ॥ ततः किष्कुपुरस्वामी महोदधिरवाभिधः । कांताभिः सहितस्तिष्ठन् विद्युत्सदृशदीप्तिभिः ॥३३६।। चंद्रपादाश्रये रम्ये महाप्रासादमूर्द्धनि । चारु गोष्टीसुधास्वादं विंदन् देवेंद्रवत्सुखं ॥ ३३७॥ वेगेन महतागत्य धवलांवरधारिणा । खेचरेणाग्रतो भूत्वा कृत्वा प्रणतिमादरात् ॥ ३३८ ॥ निवेदितस्तडित्केशः प्रव्रज्या कारणान्वितां । प्राप्य भोगेषु निर्वेदं दीक्षणे मतिमादधे ॥ ३३९ ।। प्रव्रजामीति चानेन गदितेंतःपुरान्महान् । उदतिष्ठद्गृहांतेषु विलापः प्रतिनादवान् ॥३४०॥ तंत्रीवंशादिसन्मिश्रमृदंगध्वनितोपमः । प्रविलापः सुनारीणां मुनेरप्यहरन्मनः ॥ ३४१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org