________________
पद्मपुराणम् ।
१२३
षष्ठं पर्व।
पर्यटतौ युवामत्र संसारे दुःखदायिनि । परस्परस्य कुर्वाणौ वधं मोहपरायणौ ॥ ३१६॥ मानुष्यभावमायातौ कथंचित्कर्मयोगतः । अयं हि दुर्लभो लोके धर्मोपादानकारणं ॥३१७ ॥ व्याधस्तयोरभूदेको विषये काशिनामनि । श्रावस्त्यामपरोमात्यपदे स्थैर्यमुपागतः ॥ ३१८ ॥ सुयशोदत्तनामासौ प्रव्रज्यामाश्रितः क्षितौ । चचार तपसा युक्तो महतात्यंतरूपवान् ॥ ३१९ ॥ ततस्तं सुस्थितं देशे काश्यां प्राणिविवर्जिते । पूजनार्थ समायाताः सम्यग्दृष्टिकुलांगनाः॥३२०॥ स्त्रीभिस्ततः परीतं तं व्याधोसौ वीक्ष्य योगिनं । अत्यक्ष्णोद्वाग्भिरुग्राभिः शस्त्रैः कुर्वन् विभीतिका निर्लज्जो वस्त्रमुक्तोयं स्नानवर्जितविग्रहः । मृगयायां प्रवृत्तस्य जातो मेऽमंगलं महत् ॥३२२॥ वदत्येवं ततो व्याधे धनुर्भाषणकारिणि । मुनेः कलुषतां प्राप्तं ध्यानं दुःखेन संभृतं ।। ३२३॥ इति वा चितयत्क्रोधान्मुष्टिघातेन पापिनं । कणशचूर्णयाम्येनं व्याधं रूक्षवचोमुचं ॥३२४ ।। ततः कापिष्टगमनं मुनिना यदुपार्जितं । तदस्य क्रोधसंभारात् क्षणाद्भस्ममुपागतं ॥ ३२५ ॥ ततोसौ कालधर्मेण युक्तो ज्योतिःसुरोऽभवत् । ततः प्रच्युत्य जातस्त्वं विद्युत्केशो नभश्चरः ३२६ व्याधोपि सुचिरं भ्रांत्वा भवद्रुममहावने । लंकायां प्रमदोद्याने शाखामृगगतिं गतः ॥ ३२७॥ ततोसौ निहतःस्त्यर्थं त्वया वाणेन चापलात् । प्राप्य पंचनमस्कारं जातोयं सागरामरः॥३२८॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org