________________
पद्मपुराणम् ।
१२२
षष्ठं पर्व । प्रस्थितस्य तथा मोक्षं जिनशासनवर्त्मना । देवविद्याधरादिश्रीरनुषंगेण जायते ॥ ३१३ ॥ विवुधंद्रादिभोगानां हेतुत्वं यत्प्रपद्यते । जिनधर्मो न तचित्रं ते ह्यस्मात्सुकृतादपि ॥ ३०४ ॥ विपरीतं यदेतस्माद्गृहिश्रमणधर्मतः । चरितं तस्य संज्ञा न धर्म इति कीर्तितं ॥ ३०५॥ भ्रमंति येन तिर्यक्षु नानादुःखप्रदायिषु । वाहनात्ताडनाच्छेदाद्भेदाच्छीतोष्णसंगमात् ॥ ३०६॥ नित्यांधकारयुक्तेषु नरकेषु च भूरिषु । तुषारपवनाघातकृतकंपेषु केषुचित् ।। ३०७॥ स्फुरन्स्फुलिंगरौद्राग्निज्वालालीढेषु केषुचित् । नानाकारमहारावयंत्रव्याप्तेषु केषुचित् ॥ ३०८ ॥ सिंहव्याघवृकश्येनगृध्ररुद्धेषु केषुचित् । चक्रक्रकचकुंतासिमोचिवृक्षेषु केषुचित् ॥ ३०९॥ विलीनत्रिपुसीसादिपानदायिषु केषुचित् । तीक्ष्णतुंडस्फुरत्क्रूरमक्षिकादिषु केषुचित् ॥ ३१ ॥ कृमिप्रकारसन्मिश्र रक्तपंकेषु केषुचित् । परस्परसमुद्भूतवाधाहेतुषु केषुचित् ॥ ३११॥ एवंविधेषु जीवानां सदा दुःखविधायिषु । दुःखं यन्नरकेषु स्यात्कः शक्तस्तत्प्रकीर्तितुं ।। ३१२॥ यतो यथा पुरा भ्रांतौ युवां दुःखासु योनिषु । तथा पर्यटनं भूयः प्राप्स्यतो धर्मवर्जितौ॥३१३॥ इत्युक्ताभ्यां परिपृष्टस्ताभ्यां श्रमणसत्तमः । कथं कुयोनिषु भ्रांतावावामिति मुने वद ॥३१४ ॥ जन्मान्तरं ततोऽवोचत्तयोः संयममंडनः । मनो निधीयतां वत्सावित्युक्त्वा मधुरं वचः ॥३१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org