________________
पद्मपुराणम् ।
१२१
षष्ठं पर्व ।
व्रतमेद्गृहस्थानां सम्यग्दर्शनचारिणां । आगाररहितानां तु शृणु धर्मं यथाविधिं ॥ २९० ॥ पंचोदारव्रतोत्तुंग मातंग स्कंधवर्तिनः । त्रिगुप्तदृढनीरंध्र कंकटच्छन्नविग्रहाः ॥ २९१ ॥ पादातेन समायुक्ताः समित्या पंचभेदया । नानातपोमही तीक्ष्ण शस्त्रयुक्तमनस्कराः ॥ २९२ ॥ वृतं कषायसामंतैमहिवारण वर्तिनं । भवारातिं विनिघ्नंति निरंबरमहानृपाः ।। २९३ ।। सर्वोरभपरित्यागे सम्यग्दर्शनसंगते | धर्मस्थितानगाराणामेष धर्मः समासतः ।। २९४ ॥ त्रिलोकीपरिप्राप्ते धर्मोयं हेतुतां गतः । एष एव परं प्रोक्ता मंगलं पुरुषोत्तमैः ।। २९५ ।। अन्यः कस्तस्य कथ्येत धर्मस्य परमो गुणः । त्रिलोकशिखरं येन प्राप्यते सुमहासुखं ॥ २९६ ॥ सागारण जनः स्वर्गे भुंक्ते भोगान्महागुणान् । देवीनिवहमध्यस्थो मानसेन समाहृतान् ॥ २९७ ॥ निर्वासां तु धर्मेण मोक्षं प्राप्नोति मानवः । अनौपम्यमनावार्धं सुखं यत्रांतवर्जितं ॥ २९८ ॥ स्वर्गगास्तु पुनश्च्युत्वा प्राप्य दैगंबरीं क्रियां । द्वित्रैर्भवैः प्रपद्यते प्रकृष्टाः परमं पदं ।। २९९ ।। काकतालीययोगेन प्राप्ता अपि सुरालयं । कुयोनिषु पुनः पापा भ्रमत्येव कुतीर्थिनः ॥ ३०० ॥ जैनमेवोत्तमं वाक्यं जैनमेवोत्तमं तपः । जैन एव परो धर्मो जैनमेव परं मतं ।। ३०१ ।। नगरं व्रजतः पुंसो वृक्षमूलादिसंगमः । नांतरीयकतामेति यथाखेदनिवारिणः ॥ ३०२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org