________________
पद्मपुराणम् ।
षष्ठं पर्व ।
समाधाय मनो धर्मः श्रूयतां सुरखेचरौ । यथा जिनैः समुद्दिष्टो भुवनानंदकारिभिः ॥ २७७॥ धर्मशब्दनमात्रेण बहवः प्राणिनोऽधमाः । अधर्ममेव सेवते विचारजडचेतसः ।। २७८ ।। मार्गोयमिति यो गच्छेत् दिशमज्ञाय मोहवान् । द्राघीयसापि कालेन नेष्टं स्थानं स गच्छति ।। कथाकल्पितधर्माख्यमधर्मं ममानसाः । प्राणिघातादिभिर्जातं सेवते विषयाश्रिताः ॥ २८० ॥ ते ते भावेन संसेव्य मिथ्यादर्शनदूषिताः । तिर्यग्नरकदुःखानां प्रपद्येते निधानतां ॥ २८१ ॥ कुहेतुजालसंपूर्णग्रंथार्थैर्गुरुदंड कैः । धर्मोपलिप्सया मूढास्ताडयंति नभस्तलं ।। २८२ ॥ यद्यपि स्यात्कचित्किंचिद्धर्मं प्रति कुशासने । हिंसादिरहिताचारे शरीरश्रमदेशिने ॥ २८३ ॥ सम्यग्दर्शनहीनत्वान्मूलछिन्नं तथापि च । न ज्ञानं क्षुद्रचारित्रं तेषां भवति मुक्तये ॥ २८४ ॥ पार्थिवो लोप्टुलेशोपि वैडूर्यमपि पार्थिवं । न पार्थिवत्वसमान्यात्तयोस्तुल्यं गुणादिकं ॥ २८५ ॥ लोटुलेशसमो धर्मो मिथ्यादृग्भिः प्रकीर्तितः । वैडूर्यसदृशो जैनो धर्मसंज्ञा तु सर्वगा || २८६ ॥ धर्मस्य हि दया मूलं तस्या मूलमहिंसनं । परिग्रहवतां पुंसां हिंसनं स तदोद्भवं ॥ २८७ ॥ तथा सत्यवचो धर्मस्तच्च यन परं सुखं । अदत्तादानमुक्तिश्च परनार्याश्व वर्जनं ॥ २८८ ॥ विणषु संतोष हृषीकाणां निवारणं । तनूकृतिः कषायाणां विनयो ज्ञानसेविनां ॥ २८९ ॥
१२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org